अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा प्राजापत्या जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वा॑स॒न्तावे॑नं॒मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथन्त॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठवा॒स॒न्तौ । ए॒न॒म् । मासौ॑ । प्राच्या॑: । दि॒श: । गो॒पा॒य॒त॒: । बृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.३॥
स्वर रहित मन्त्र
वासन्तावेनंमासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद॥
स्वर रहित पद पाठवासन्तौ । एनम् । मासौ । प्राच्या: । दिश: । गोपायत: । बृहत् । च । रथम्ऽतरम् । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(एनम्)विद्वांसम् (गोपायतः) रक्षतः (अनुतिष्ठतः) सहवर्तेते। विहितकर्म कुरुतः (यः)विद्वान् (एवम्) इण् गतौ-वन्। व्यापकं व्रात्यं परमात्मानम् (वेद) जानाति। अन्यत्पूर्ववत्-म० १, २ ॥
इस भाष्य को एडिट करें