Loading...
अथर्ववेद > काण्ड 16 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 6
    सूक्त - प्रजापति देवता - साम्नी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - दुःख मोचन सूक्त

    अ॒पामग्र॑मसिसमु॒द्रं वो॒ऽभ्यव॑सृजामि ॥

    स्वर सहित पद पाठ

    अ॒पाम् । अग्र॑म् । अ॒सि॒ । स॒मु॒द्रम् । व॒: । अ॒भि॒ऽअव॑सृजामि ॥१.६॥


    स्वर रहित मन्त्र

    अपामग्रमसिसमुद्रं वोऽभ्यवसृजामि ॥

    स्वर रहित पद पाठ

    अपाम् । अग्रम् । असि । समुद्रम् । व: । अभिऽअवसृजामि ॥१.६॥

    अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 6

    टिप्पणीः - ६−(अपाम्) म० १। प्रजानाम् (अग्रम्) आलम्बनम् (असि)प्रथमपुरुषस्य मध्यमपुरुषः। अस्ति। वर्तते (समुद्रम्) अ० १०।५।२३। सम्+उत्+द्रुगतौ-ड प्रत्ययः। समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः, समभिद्रवन्त्येनमापः, सम्मोदन्तेऽस्मिन् भूतानि समुदको भवति समुनत्तीति वा-निरु० २।१०। समुद्रआदित्यः, समुद्र आत्मा-निरु० १४।१६। समुद्रः समुद्द्रवन्ति भूतानियस्मात्सः-दयानन्दभाष्ये, यजु० ५।३३। सर्वे देवाः सम्यगुत्कर्षेण द्रवन्तियत्रेति समुद्रः-महीधरभाष्ये, यजु० ५।™३३। भूतानां समुदयकारकं परमात्मानम् (वः)युष्मान् (अभ्यवसृजामि) अभिलक्ष्यत्यजामि अनुज्ञापयामि ॥

    इस भाष्य को एडिट करें
    Top