Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 6
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत्। न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मादिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    न । मत् । स्त्री । सु॒भ॒सत्ऽत॑रा । न । सु॒याशु॑ऽतरा । भु॒व॒त् ॥ न । मत् । प्रति॑ऽच्यवीयसी । न । सक्थि॑ । उत्ऽय॑मीयसी । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.६॥


    स्वर रहित मन्त्र

    न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्। न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    न । मत् । स्त्री । सुभसत्ऽतरा । न । सुयाशुऽतरा । भुवत् ॥ न । मत् । प्रतिऽच्यवीयसी । न । सक्थि । उत्ऽयमीयसी । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 6

    टिप्पणीः - ६−(न) निषेधे (मत्) मत्तः (स्त्री) अन्या नारी (सुभसत्तरा) शॄदॄभसोऽदिः। उ० १।१३०। भस दीप्तौ-अदि। अधिकसुदीप्यमाना। सुभगतरा (न) (सुयाशुतरा) यसु प्रयत्ने-उण्, सस्य शः। अतिशयेन सुप्रयतमाना (भुवत्) भवेत् (न) (मत्) (प्रतिच्यवीयसी) च्युङ् सहने गतौ च-तृच्, ईयसुन्। प्रत्यक्षेणाधिकच्यावयित्री। अधिकसहनशीला (न) (सक्थि) जङ्घादिशरीराङ्गजातम् (उद्यमीयसी) यमु उपरमे-तृच्, ईयसुन्। अतिशयेन उद्यमयित्री। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top