Loading...
अथर्ववेद > काण्ड 20 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 11
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१६

    अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन्। रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥

    स्वर सहित पद पाठ

    अ॒भि । श्या॒वम् । न । कृश॑नेभि : । अश्व॑म् । नक्ष॑त्रेभि: । पि॒तर॑: । द्याम् । अ॒पिं॒श॒न् ॥ रात्र्या॑म् । तम॑: । अद॑धु: । ज्योति॑: । अह॑न् । बृह॒स्पति॑: । भि॒नत् । अद्रि॑म् । वि॒दत् । गा:॥१६.११॥


    स्वर रहित मन्त्र

    अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन्। रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥

    स्वर रहित पद पाठ

    अभि । श्यावम् । न । कृशनेभि : । अश्वम् । नक्षत्रेभि: । पितर: । द्याम् । अपिंशन् ॥ रात्र्याम् । तम: । अदधु: । ज्योति: । अहन् । बृहस्पति: । भिनत् । अद्रिम् । विदत् । गा:॥१६.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 11

    टिप्पणीः - ११−(अभि) सर्वतः (श्यावम्) अ० ।।८। श्यैङ् गतौ-वप्रत्ययः। शीघ्रगामिनम् (न) यथा (कृशनेभिः) कॄपॄवृजिमन्दिनिधाञः क्युः। उ० २।८१। कृश तनूकरणे-क्यु। कृशनैः सुवर्णालङ्कारैः-निघ० १।२ (अश्वम्) तुरङ्गम् (नक्षत्रेभिः) तारागणैः (पितरः) पालकाः परमेश्वरनियमाः (द्याम्) आकाशम् (अपिंशन्) पिश अवयवे दीपनायां च-लङ्। अदीपयन्। अलम्-कुर्वन् (रात्र्याम्) निशि (तमः) अन्धकारम् (अदधुः) धारितवन्तः (ज्योतिः) प्रकाशम् (अहन्) अह्नि। दिने (बृहस्पतिः) महाविद्वान् पुरुषः (भिनत्) अभिनत्। विदारितवान् (अद्रिम्) शैलतुल्यदृढज्ञानम् (विदत्) बिद्लृ लाभे-लुङ्। अन्तर्गतण्यर्थः। अविदत्। प्रापितवान् (गाः) वेदवाणीः ॥

    इस भाष्य को एडिट करें
    Top