Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 46/ मन्त्र 3
स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑। अछा॑ च नः सु॒म्नं ने॑षि ॥
स्वर सहित पद पाठस: । त्वम् । न॒: । इ॒न्द्र॒ । वाजे॑भि: । द॒श॒स्य । च॒ । गा॒तु॒ऽया । च॒ ॥ अच्छ॑ । च॒ । न॒: । सु॒म्नम् । ने॒षि॒ ॥४६.३॥
स्वर रहित मन्त्र
स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च। अछा च नः सुम्नं नेषि ॥
स्वर रहित पद पाठस: । त्वम् । न: । इन्द्र । वाजेभि: । दशस्य । च । गातुऽया । च ॥ अच्छ । च । न: । सुम्नम् । नेषि ॥४६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 46; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सः) तादृशः (त्वम्) (नः) अस्मभ्यम् (इन्द्रः) सेनापते (वाजेभिः) सङ्ग्रामैः (दशस्य) अ० २०।३।११। दशः कवच इवाचर (च) (गातुया) छन्दसि परेच्छायामपि। वा० पा० ३।१।८। गातु-क्यच्। छान्दसो दीर्घः, ऋग्वेदे [गातुय] इति पदपाठः। मार्गम् इच्छ (च) (अच्छ) सुष्ठु (च) (नः) अस्मान् (सुम्नम्) सुखं प्रति (नेषि) शपो लुक्। नयसि। नय। प्रापय ॥
इस भाष्य को एडिट करें