अथर्ववेद - काण्ड 20/ सूक्त 49/ मन्त्र 1
यच्छ॒क्रा वाच॒मारु॑हन्न॒न्तरि॑क्षं सिषासथः। सं दे॒वा अ॑मद॒न्वृषा॑ ॥
स्वर सहित पद पाठयत् । श॒क्रा: । वाच॒म् । आरु॑हन् । अ॒न्तरि॑क्षम् । सिषासथ: ॥ सम् । दे॒वा: । अ॑म॒दन् । वृषा॑ ॥४९.१॥
स्वर रहित मन्त्र
यच्छक्रा वाचमारुहन्नन्तरिक्षं सिषासथः। सं देवा अमदन्वृषा ॥
स्वर रहित पद पाठयत् । शक्रा: । वाचम् । आरुहन् । अन्तरिक्षम् । सिषासथ: ॥ सम् । देवा: । अमदन् । वृषा ॥४९.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 49; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - [सूचना−मन्त्र १-३ ऋग्वेद आदि अन्य वेदों में नहीं है, और इनका पदपाठ भी गवर्नमेन्ट बुकडिपो बम्बई के पुस्तक में नहीं है, आगे सूचना−सूक्त ४८ मन्र १-३ देखो ॥]सूचना−पं० सेवकलाल कृष्णदास परिशोधित संहिता में इस मन्त्र का यह पाठ है−यच्छ॒क्रं वाच॒ आरु॑हन्न॒न्तरि॑क्षं॒ सिषा॑सतीः। सं दे॒वो अ॑मद॒द् वृषा॑ ॥१॥ (यत्) जब (अन्तरिक्षम्) हृदय आकाश को (सिषासतीः) सेवने की इच्छा करती हुई (वाचः) वाणियाँ (शक्रम्) समर्थ [जीव] को (आरुहन्) प्रकट हुई, [तब] (देवः) विजय चाहनेवाले (वृषा) बलवान् पुरुष ने (सम्) ठीक-ठीक (अमदत्) आनन्द पाया ॥१॥जब मनुष्य हृदय के भाव प्रकट करने के लिये परमेश्वरनियम से बोलने की शक्ति पाता है, तब वह व्यवहारों की सिद्धि करके सुखी होता है ॥१॥ १−(यत्) यदा (शक्राः) समर्थाः (वाचः) वाणीम् (आरुहन्) बीजवत् स्थापितवन्तः (अन्तरिक्षम्) हृदयाकाशं प्रति (सिषासथः) शीङ्शपिरुगमि०। उ० ३।११३। षणु दाने-सनि अथप्रत्ययः। दानेच्छुकः-आसीत् इति शेषः (सम्) सम्यक् (देवाः) विद्वांसः (अमदन्) आनन्दं प्राप्नुवन् (वृषा) बलिष्ठः परमेश्वरः ॥ १−(यत्) यदा (शक्रम्) समर्थजीवम् (वाचः) वाण्यः (आरुहन्) प्रादुरभवन् (अन्तरिक्षम्) हृदयाकाशम् (सिषासतीः) षण सम्भक्तौ, सन्, शतृ, ङीप्। सेवितुमिच्छन्त्यः (सम्) सम्यक् (देवः) विजिगीषुः (अमदत्) हर्षं प्राप्नोत् (वृषा) बलवान् पुरुषः ॥
इस भाष्य को एडिट करें