Loading...
अथर्ववेद > काण्ड 20 > सूक्त 94

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 3
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९४

    एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम्। प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥

    स्वर सहित पद पाठ

    आ । इ॒न्द्र॒ऽवाह॑: । नृ॒ऽपति॑म् । वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रास॑: । त॒वि॒षास॑: । ए॒न॒म् ॥ प्रऽत्व॑क्षसम् । वृ॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ । ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमाद॑: । व॒ह॒न्तु॒ ॥९४.३॥


    स्वर रहित मन्त्र

    एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम्। प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥

    स्वर रहित पद पाठ

    आ । इन्द्रऽवाह: । नृऽपतिम् । वज्रऽबाहुम् । उग्रम् । उग्रास: । तविषास: । एनम् ॥ प्रऽत्वक्षसम् । वृषभम् । सत्यऽशुष्मम् । आ । ईम् । अस्मऽत्रा । सधऽमाद: । वहन्तु ॥९४.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 3

    टिप्पणीः - ३−(आ) समन्तात् (इन्द्रवाहः) वह प्रापणे-ण्वि इन्द्रस्य वोढारोऽश्वगजादयः (नृपतिम्) (वज्रबाहुम्) हस्ते वज्रयुक्तम् (उग्रम्) प्रचण्डम् (उग्रासः) उग्राः (तविषासः) तवेर्णिद्वा। उ० १।४८। तव वृद्धौ-डिषच्, असुक् च। तविषाः। बलवन्तः (एनम्) (प्रत्वक्षसम्) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। प्र+त्वक्षू तनूकरणे-असि। शत्रूणां प्रकर्षेण तनूकर्तारम् (वृषभम्) सुखस्य वर्षकम् (सत्यशुष्मम्) यथार्थवज्रोपेतम् (आ) समन्तात् (ईम्) प्राप्तव्यम् (अस्मत्रा) अस्मासु (सधमादः) सहमादयन्तः (वहन्तु) प्रापयन्तु ॥

    इस भाष्य को एडिट करें
    Top