अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 15
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते। प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठय: । त्वा॒ । भ्राता॑ । पति॑: । भू॒त्वा । जा॒र: । भू॒त्वा । नि॒पद्य॑ते ॥ प्र॒ऽजाम् । य: । ते॒ । जिघां॑सति । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥९६.१५॥
स्वर रहित मन्त्र
यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते। प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥
स्वर रहित पद पाठय: । त्वा । भ्राता । पति: । भूत्वा । जार: । भूत्वा । निपद्यते ॥ प्रऽजाम् । य: । ते । जिघांसति । तम् । इत: । नाशयामसि ॥९६.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यः) दुराचारी (त्वा) त्वाम् (भ्राता) भ्रातृरूपः (पतिः) भर्तृरूपः (भूत्वा) (जारः) व्यभिचारी (भूत्वा) (निपद्यते) अभिगच्छति (प्रजाम्) सन्तानम् (यः) दुराचारी (ते) तव (जिघांसति) हन्तुमिच्छति। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें