Loading...
अथर्ववेद > काण्ड 3 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 4
    सूक्त - ब्रह्मा, भृग्वङ्गिराः देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम् छन्दः - शक्वरीगर्भा जगती सूक्तम् - दीर्घायुप्राप्ति सूक्त

    श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥

    स्वर सहित पद पाठ

    श॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।श॒तम् । ते॒ । इन्द्र॑: । अ॒ग्नि: । स॒वि॒ता । बृह॒स्पति॑: । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥११.४॥


    स्वर रहित मन्त्र

    शतं जीव शरदो वर्धमानः शतं हेमन्तान्छतमु वसन्तान्। शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥

    स्वर रहित पद पाठ

    शतम् । जीव । शरद: । वर्धमान: । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।शतम् । ते । इन्द्र: । अग्नि: । सविता । बृहस्पति: । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥११.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 4

    टिप्पणीः - ४−(शतम्)। बहुनाम। (जीव)। प्राणान् धारय। (शरदः)। शरदृतून् वर्षाकालान् इत्यर्थः। (वर्धमानः)। वृद्धिं कुर्वाणः। हेमन्तान्। हन्तेर्मुट् हि च। उ० ३।१२९। इति हन वधगत्योः-झच्, हन्तेर्हि, मुडागमः। हन्ति उष्णत्वम्। शीतकालान्। (उ)। समुच्चये। (वसन्तान्)। तॄभूवहिवसिभासि०। उ० ३।१२८। इति वस वासे, निवासे, आच्छादने च-झच्। पुष्पसमयान्। ग्रीष्मकालान्। (शतम्)। यथा तथा। बहुप्रकारेण। (ते)। तुभ्यम्। (इन्द्रः)। ऐश्वर्यवान्। (अग्निः)। अगि गतौ-नि। ज्ञानवान्। (सविता)। सर्वस्य प्रेरकः। (बृहस्पतिः)। अ० १।८।२। तथा २।१३।२। बृहत्+पतिः, सुट्, तलोपः। बृहतां विदुषां कर्मणां वा पालकः। इन्द्रादीनि चत्वारि (अहम्) इति पदस्य विशेषणानि। अन्यद् व्याख्यातम्-म० ३ ॥

    इस भाष्य को एडिट करें
    Top