अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 2
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - अनुष्टुप्
सूक्तम् - शङ्खमणि सूक्त
यो अ॑ग्र॒तो रो॑च॒नानां॑ समु॒द्रादधि॑ जज्ञि॒षे। श॒ङ्खेन॑ ह॒त्वा रक्षां॑स्य॒त्त्रिणो॒ वि ष॑हामहे ॥
स्वर सहित पद पाठय: । अ॒ग्र॒त: । रो॒च॒नाना॑म् । स॒मु॒द्रात् । अधि॑ । ज॒ज्ञि॒षे । श॒ङ्खेन॑ । ह॒त्वा । रक्षां॑सि । अ॒त्त्रिण॑: । वि । स॒हा॒म॒हे॒ ॥१०.२॥
स्वर रहित मन्त्र
यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे। शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥
स्वर रहित पद पाठय: । अग्रत: । रोचनानाम् । समुद्रात् । अधि । जज्ञिषे । शङ्खेन । हत्वा । रक्षांसि । अत्त्रिण: । वि । सहामहे ॥१०.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यः) हे शङ्ख यस्त्वम् (अग्रतः) अग्रे। आदौ (रोचनानाम्) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। इति रुच दीप्तौ-युच्। प्रकाशमानानां नक्षत्रादीनाम् (समुद्रात्) जलसमूहात् (अधि) उपरि देशे काले च (जज्ञिषे) जनी-लिट्। त्वं प्रादुर्बभूविथ (शङ्खेन) म० १। सर्वेषां विवेचकेन दर्शकेन शान्तिदायकेन वा परमेश्वरेण (हत्वा) नाशयित्वा (रक्षांसि) अ० १।२१।३। राक्षसान्। शत्रून् (अत्रिणः) अ० १।७।३। अद भक्षणे-त्रिनि। भक्षणशीलान्। उदरपोषकान् (वि) विशेषेण (सहामहे) अभिभवामः ॥
इस भाष्य को एडिट करें