अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 6
सूक्त - गरुत्मान्
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनाशन सूक्त
प॒वस्तै॑स्त्वा॒ पर्य॑क्रीणन्दू॒र्शेभि॑र॒जिनै॑रु॒त। प्र॒क्रीर॑सि॒ त्वमो॑ष॒धेऽभ्रि॑खाते॒ न रू॑रुपः ॥
स्वर सहित पद पाठप॒वस्तै॑: । त्वा॒ । परि॑ । अ॒क्री॒ण॒न् । दू॒र्शेभि॑: । अ॒जिनै॑: । उ॒त । प्र॒ऽक्री: । अ॒सि॒ । त्वम् । ओ॒ष॒धे॒ । अभ्रि॑ऽखाते । न । रू॒रु॒प॒: ॥७.६॥
स्वर रहित मन्त्र
पवस्तैस्त्वा पर्यक्रीणन्दूर्शेभिरजिनैरुत। प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥
स्वर रहित पद पाठपवस्तै: । त्वा । परि । अक्रीणन् । दूर्शेभि: । अजिनै: । उत । प्रऽक्री: । असि । त्वम् । ओषधे । अभ्रिऽखाते । न । रूरुप: ॥७.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(पवस्तैः) पवते, गतिकर्मा-निघ० २।१४। अस्माद् औणादिको अस्तप्रत्ययः। पवन्ते गच्छन्ति यत्र। मण्डपैः। गृहैः। अत्र सर्वत्र निमित्ते तृतीया। पवस्तशब्दो द्यावापृथिव्योर्वाचको दृष्टः। ऋ० १०।२७।७। (त्वा) त्वां विषरूपाम् (परि अक्रीणन्) डुक्रीञ् द्रव्यविनिमये-लङ्। परिक्रीतवन्तः पुरुषाः (दूर्शेभिः) दुर्+शो तनूकरणे-ड। दुर् दुःखं श्यतीति दूर्शम्। दूर्शेः। दूश्यैः। दूष्यैः। वस्त्रनिर्मितगृहैः (अजिनैः) अजेरज च। उ० २।४८। इति अज गतिक्षेपणयोः-इनच्। चर्मभिः (उत) अपि च (प्रक्रीः) प्रपूर्वात् क्रीणातेः कर्मणि संपदादित्वात् क्विप्। प्रकर्षेण क्रीता (असि) भवसि (त्वम्) (ओषधे) हे तापधारिणि। अन्यद् गतम्-म० ५ ॥
इस भाष्य को एडिट करें