Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 136/ मन्त्र 3
सूक्त - वीतहव्य
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - केशदृंहण सूक्त
यस्ते॒ केशो॑ऽव॒पद्य॑ते॒ समू॑लो॒ यश्च॑ वृ॒श्चते॑। इ॒दं तं वि॒श्वभे॑षज्या॒भि षि॑ञ्चामि वी॒रुधा॑ ॥
स्वर सहित पद पाठय: । ते॒ । केश॑: । अ॒व॒ऽपद्य॑ते । सऽमू॑ल: । य: । च॒ । वृ॒श्चते॑ । इ॒दम् । तम् । वि॒श्वऽभे॑षज्या । अ॒भि । सि॒ञ्चा॒मि॒ । वी॒रुधा॑ ॥१३६.३॥
स्वर रहित मन्त्र
यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते। इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥
स्वर रहित पद पाठय: । ते । केश: । अवऽपद्यते । सऽमूल: । य: । च । वृश्चते । इदम् । तम् । विश्वऽभेषज्या । अभि । सिञ्चामि । वीरुधा ॥१३६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 136; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यः) (ते) तव (अवपद्यते) निपतति (समूलः) मूलसहितः (यः) (च) (वृश्चते) वृश्च्यते। छिद्यते (इदम्) इदानीम् (तम्) केशम् (विश्वभेषज्या) सर्वस्य केशरोगस्य निवर्तयित्र्या (अभि) अभितः (सिञ्चामि) आर्द्रीकरोमि (वीरुधा) लतया ॥
इस भाष्य को एडिट करें