Loading...
अथर्ववेद > काण्ड 6 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 8/ मन्त्र 1
    सूक्त - जमदग्नि देवता - कामात्मा छन्दः - पथ्यापङ्क्तिः सूक्तम् - कामात्मा सूक्त

    यथा॑ वृ॒क्षं लिबु॑जा सम॒न्तं प॑रिषस्व॒जे। ए॒वा परि॑ ष्वजस्व॒ मां यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥

    स्वर सहित पद पाठ

    यथा॑ । वृ॒क्षम् । लिबु॑जा । स॒म॒न्तम् । प॒रि॒ऽस॒स्व॒जे। ए॒व । परि॑ । स्व॒ज॒स्व॒ । माम् । यथा॑ । माम् । का॒मिनी॑ । अस॑: । यथा॑ । मत् । न । अप॑ऽगा: । अस॑: ॥८.१॥


    स्वर रहित मन्त्र

    यथा वृक्षं लिबुजा समन्तं परिषस्वजे। एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन्नापगा असः ॥

    स्वर रहित पद पाठ

    यथा । वृक्षम् । लिबुजा । समन्तम् । परिऽसस्वजे। एव । परि । स्वजस्व । माम् । यथा । माम् । कामिनी । अस: । यथा । मत् । न । अपऽगा: । अस: ॥८.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 8; मन्त्र » 1

    टिप्पणीः - १−(यथा) येन प्रकारेण (वृक्षम्) स्वीकरणीयं द्रुमम् (लिबुजा) पॄभिदिव्यधि०। उ० १।२३। इति लिप वृद्धौ−कु, पस्य बः। जनी प्रादुर्भावे−ड, टाप्। लिबुना वर्धकेन आश्रयेण सह जायते सा। लता, वल्ली। लिबुजा व्रततिर्भवति लीयते विभजन्तीति−निरु० ६।२८। (समन्तम्) सर्वतः (परिषस्वजे) ष्वञ्ज परिष्वङ्गे, लडर्थे लिट्। परिष्वजते। आश्लिष्यति (एव) तथा (परि स्वजस्व) आश्लिष्य (माम्) ब्रह्मचारिणम्। अन्यद् यथा−अ० १।३४।५। (यथा) यस्मात्कारणात् (माम्) (कामिनी) कामयमाना (असः) त्वं भवेः (यथा) (मत्) मत्तः (नः) निषेधे (अपगाः) अपगन्त्री। वियोगिनी (असः) ॥

    इस भाष्य को एडिट करें
    Top