Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 17
    सूक्त - शुक्रः देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - प्रतिसरमणि सूक्त

    अ॑सप॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात्। इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ॥

    स्वर सहित पद पाठ

    अ॒स॒प॒त्नम् । न॒: । अ॒ध॒रात् । अ॒स॒प॒त्नम् । न॒: । उ॒त्त॒रात् । इन्द्र॑ । अ॒स॒प॒त्नम् । न॒: । प॒श्चात् । ज्योति॑: । शू॒र॒ । पु॒र: । कृ॒धि॒॥५.१७॥


    स्वर रहित मन्त्र

    असपत्नं नो अधरादसपत्नं न उत्तरात्। इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥

    स्वर रहित पद पाठ

    असपत्नम् । न: । अधरात् । असपत्नम् । न: । उत्तरात् । इन्द्र । असपत्नम् । न: । पश्चात् । ज्योति: । शूर । पुर: । कृधि॥५.१७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 17

    टिप्पणीः - १७−(असपत्नम्) शत्रुरहितम् (नः) अस्मभ्यम् (अधरात्) अधोदेशात् (उत्तरात्) उपरिदेशात् (इन्द्र) परमैश्वर्यवन् राजन् (पश्चात्) पृष्ठतः (ज्योतिः) प्रकाशम् (शूर) (पुरः) पुरस्तात् (कृधि) कुरु। अन्यत्पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top