Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    गा॑य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम्। वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणीः॑ ॥

    स्वर सहित पद पाठ

    गा॒य॒त्रेण॑ । प्रति॑ । मि॒मी॒ते॒ । अ॒र्कम् । अ॒र्केण॑ । साम॑ । त्रैस्तु॑भेन । वा॒कम् । वा॒केन॑ । वा॒कम् । द्वि॒ऽपदा॑ । चतु॑:ऽपदा । अ॒क्षरे॑ण । मि॒म॒ते॒ । स॒प्त । वाणी॑: ॥१५.२॥


    स्वर रहित मन्त्र

    गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम्। वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥

    स्वर रहित पद पाठ

    गायत्रेण । प्रति । मिमीते । अर्कम् । अर्केण । साम । त्रैस्तुभेन । वाकम् । वाकेन । वाकम् । द्विऽपदा । चतु:ऽपदा । अक्षरेण । मिमते । सप्त । वाणी: ॥१५.२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 2

    टिप्पणीः - २−(गायत्रेण) म० २। स्तुत्येन गुणेन। (प्रति) प्रतीत्या (मिमीते) अ० ४।११।२। माङ् माने शब्दे च। तोलयति। उच्चारयति (अर्कम्) अ० ३।३।२। अर्को देवो भवति यदेनमर्चन्ति-निरु० ५।४। पूजनीयं परमेश्वरम् (अर्केण) पूजनीयेन ब्रह्मणा (साम) अ० ७।५४।१। षो अन्तकर्मणि-मनिन्। दुःखनाशिकां मोक्षविद्याम् (त्रैष्टुभेन) म० १। त्रिभिः कर्मोपासनाज्ञानैः पूजितेन ब्रह्मणा (वाकम्) वच-घञ्, कुत्वम्। वेदवचनम् (वाकेन) वेदवचनेन (वाकम्) अर्शआदिभ्योऽच्। पा० ५।२।१२७। वाक्-अच्। वेदवाक्यस्वामिनं परमेश्वरम् (द्विपदा) पादद्वयोपेतेन मनुष्यादिना सह वर्तमानम् (चतुष्पदा) पादचतुष्टयोपेतेन गवादिना सह वर्तमानम् (अक्षेरण) अशेः सरः। उ० ३।७०। अशू व्याप्तौ-सर, यद्वा, नञ्+क्षर संचलने-पचाद्यच्। अक्षरं वाङ्नाम-निघ० १।११। अक्षर उदकम्-निघ० १।१२। सर्वव्यापकेन। अविनाशिना। मोक्षेण। ब्रह्मणा (मिमते) माङ् माने शब्दे च। तोलन्ति। वदन्ति (सप्त) शीर्षण्यैः सप्तभिः श्रोत्रादिभिः सम्बद्धाः (वाणीः) वाण्यः ॥

    इस भाष्य को एडिट करें
    Top