अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 32
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - दशपदा प्रकृतिः
सूक्तम् - अज सूक्त
यो वै कु॒र्वन्तं॒ नाम॒र्तुं वेद॑। कु॑र्व॒तींकु॑र्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै कु॒र्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥
स्वर सहित पद पाठय: । वै । कु॒र्वन्त॑म् । नाम॑ । ऋ॒तुम् । वेद॑ । कु॒र्व॒तीम्ऽकु॑र्वतीम् । ए॒व । अप्रि॑यस्य । भ्रातृ॑व्यस्य । श्रिय॑म् । आ । द॒त्ते॒ । ए॒ष: । वै । कु॒र्वन् । नाम॑ । ऋ॒तु: । यत् । अ॒ज: । पञ्च॑ऽओदन:॥५.३२॥
स्वर रहित मन्त्र
यो वै कुर्वन्तं नामर्तुं वेद। कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वै कुर्वन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥
स्वर रहित पद पाठय: । वै । कुर्वन्तम् । नाम । ऋतुम् । वेद । कुर्वतीम्ऽकुर्वतीम् । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ । दत्ते । एष: । वै । कुर्वन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन:॥५.३२॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 32
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३२−(कुर्वन्तम्) करोतेः शतृ, रचयन्तम् (कुर्वतीं कुर्वतीम्) रचन्तीं रचन्तीम् (श्रियम्) लक्ष्मीम् (आ दत्ते) गृह्णाति (कुर्वन्) निष्पादयन्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें