अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 1
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
ब्रह्मा॑स्य शी॒र्षं बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑। छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॑सोऽधि य॒ज्ञः ॥
स्वर सहित पद पाठब्रह्म॑ । अ॒स्य॒ । शी॒र्षम् । बृ॒हत् । अ॒स्य॒ । पृ॒ष्ठम् । वा॒म॒ऽदे॒व्यम् । उ॒दर॑म् । ओ॒द॒नस्य॑ । छन्दां॑सि । प॒क्षौ । मुख॑म् । अ॒स्य॒ । स॒त्यम् । वि॒ष्टा॒री । जा॒त: । तप॑स: । अधि॑ । य॒ज्ञ: ॥३४.१॥
स्वर रहित मन्त्र
ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य। छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥
स्वर रहित पद पाठब्रह्म । अस्य । शीर्षम् । बृहत् । अस्य । पृष्ठम् । वामऽदेव्यम् । उदरम् । ओदनस्य । छन्दांसि । पक्षौ । मुखम् । अस्य । सत्यम् । विष्टारी । जात: । तपस: । अधि । यज्ञ: ॥३४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 1
विषय - विष्टारी ओदन, परम प्रजापति की उपासना और फल।
भावार्थ -
(यज्ञः) यह यज्ञमय प्रजापति अर्थात् परमात्मा (विष्टारी) सर्वत्र विस्तृत, ब्रह्माण्ड रूप में विराट् देह करके फैला हुआ है। यह (तपसः अधिजातः) तपश्चर्या से प्रकट होता है। इसका एक नाम ‘ओदन’ है। (अस्य) इस (ओदनस्य) प्रजापतिरूप ओदन का (शीर्षम्) शिरोभाग (ब्रह्म) ब्रह्मज्ञान, वेद या शक्ति है और (अस्य पृष्ठम्) इसकी पीठ (बृहत्) यह विशाल ब्रह्माण्ड है और (उदरं) उदर भाग (वामदेव्यम्) वाम = जीव द्वारा अधिष्ठित संसार, स्थावर जंगम हैं। यज्ञपक्ष में—उस ओदन का शिरोभाग रथंतर साम, पृष्ठभाग बृहत् साम और उदरभाग वामदेव्य साम हैं। वर्णभेद से उसका शिरोभाग ब्राह्मण, पृष्ठभाग बृहत्-क्षत्र और वामदेव्य-वैश्य हैं। इसके (पक्षौ) दोनों पक्ष (छन्दांसि) छन्द हैं। (अस्य मुखम्) इसका मुख सत्य है।
संवत्सर, पुरुष, आत्मा, परमात्मा, समाज, राष्ट्र, यज्ञ आदि प्रजापति के नाम से कहे जाते हैं सब पक्षों में ब्रह्म, बृहत्, वामदेव्य, छन्द आदि शब्दों के अर्थ इस रूप में समझिये।
टिप्पणी -
(१) यज्ञ = मखः, भागः, देवानां महः। एष वै महान् देवो यद् यज्ञः (गो० पू० २। १६) यज्ञो वै बृहन् विपश्चित्। श०३। ५। ३। १२॥ यज्ञो विदद् वसुः। ग० १५। ४। ५॥ यज्ञो वै स्वः। श० १। १। २। २१॥ देवरथः । ऐ० २। ३७॥ वाग् वै यज्ञः। ऐ० ५। ५४॥ संवत्सरो यज्ञः प्रजापतिः। श० २। २। २। ४॥ आत्मा वै यज्ञः। श० ६। २। १। ७॥ पुरुषो वै यज्ञः । को० १७। ७॥
(२) ओदनः = परमेष्टी वा एष यदोदनः। तै० १। ७। १०॥ ६॥ प्रजापतिर्वा ओदनः। श० १३। ३ । ९ । ७॥ रेतो वा ओदनः। श० १३। १। १४। ४॥
(३) ब्रह्म=वाग्, वाचः परमं व्योम, सत्त्वम्, चक्षुः, मन्त्रः, वेदः, अग्निः प्राणः, अहः, ब्राह्मणः इत्येते ब्रह्मवाच्यार्थाः।
(४) बृहत्—बृहन्मर्याः इदं सः ज्योगभूद् इति बृहतो बृहत्वम्। तां० ७। ६। ५॥ यद् ह्रस्वं तद् रथन्तरं यद् दीर्घं तद् बृहत्। कौ०। ३। ५॥ श्रैष्ठ्यं । ऐ० ८। २। यथा वै पुत्रो ज्येष्ठ, एवं बृहत् प्रजापतेः॥ तां० ७। ६। ६॥ ऊर्ध्वामिव हि बृहत्। द्यौः तां० १६।१। ८॥ स्वर्गो लोकः। तां० १६। ५। १५॥ आदित्यः प्राणः, क्षत्रं, मनः। स प्रजापतिः तूष्णीं मनसाऽध्यायत् स यन्मनस्यासीत् तत् बृहत्समभवत्। तां० ७। ६। १॥
(५) वामदेव्यम् = पिता वामदेव्यं, पुत्राः पृष्ठानि। तां० ७। ९१॥ शान्तिर्वामदेव्यम्। तै० १। १। ८॥ प्रजननं वामदेव्यं श०। ५। १। ३। १२॥ प्राणः। श० ९। १। २। ३८॥ पशवः तां० ४ । ८ । १५ ॥
(६) छन्दांसि = दिशः, रसाः, इन्द्रियाणि, प्राणाः, पशवः । प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांसि। ऐ० ८। १८॥ लोमानि। श० ६। ४। १। ६॥ छन्दांसि सावित्री। गो० पू० १। ३३॥
(७) सत्यम् = ऋतम्, धर्मः, सुकृतस्य लोकः, व्रतस्य रूपम्, देवाः, ब्रह्म, सत्यं वा एतत् यद् वर्षति । तै० १। ७। ५। ३। असावा-दित्यः। तै० २। १। ११। १॥
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ब्रह्मास्यौदनं विष्टारी ओदनं वा देवता। १-३ त्रिष्टुभः। ५ त्र्यवसाना सप्तपदाकृतिः। ६ पञ्चपदातिशक्वरी। ७ भुरिक् शक्वरी, ८ जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें