Loading...
ऋग्वेद मण्डल - 10 के सूक्त 128 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 128/ मन्त्र 4
    ऋषिः - विहव्यः देवता - विश्वेदेवा: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥

    स्वर सहित पद पाठ

    मह्य॑म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आऽकू॑तिः । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ । एनः॑ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा॒सः॒ । अधि॑ । वो॒च॒त॒ । नः॒ ॥


    स्वर रहित मन्त्र

    मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः ॥

    स्वर रहित पद पाठ

    मह्यम् । यजन्तु । मम । यानि । हव्या । आऽकूतिः । सत्या । मनसः । मे । अस्तु । एनः । मा । नि । गाम् । कतमत् । चन । अहम् । विश्वे । देवासः । अधि । वोचत । नः ॥ १०.१२८.४

    ऋग्वेद - मण्डल » 10; सूक्त » 128; मन्त्र » 4
    अष्टक » 8; अध्याय » 7; वर्ग » 15; मन्त्र » 4

    भावार्थ -
    (मह्यम् यजन्तु) लोग मेरे लिये यज्ञ करें। मेरी शुभ कामना से प्रभु की प्रार्थना करें, वे मुझे उत्तम ऐश्वर्य, ज्ञान और यश, बल प्रदान करें। (यानि हव्या) जितने ग्रहण करने योग्य, उत्तम अन्न, ज्ञान आदि पदार्थ हैं वे मुझे प्राप्त हों। (मे मनसः आकूतिः सत्या अस्तु) मेरे मन की संकल्प शक्ति सत्य हो। (अहम्) मैं (कतमत् चन एनः मा निगाम्) किसी भी पाप की ओर न जाऊं। (विश्वे देवासः) समस्त ज्ञानी पुरुष (नः अधि वोचत) हमें उपदेश करें।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्विहव्यः॥ विश्वेदेवा देवताः। छन्द:—१, ३ विराट् त्रिष्टुप्। २, ५, ८ त्रिष्टुप्। ३, ६ निचृत् त्रिष्टुप्। ७ भुरिक् त्रिष्टुप्। ९ पादनिचृज्जगती॥ नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top