Loading...
ऋग्वेद मण्डल - 10 के सूक्त 144 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 6
    ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यज॑: । क्रत्वा॒ वयो॒ वि ता॒र्यायु॑: सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥

    स्वर सहित पद पाठ

    ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ । क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥


    स्वर रहित मन्त्र

    एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यज: । क्रत्वा वयो वि तार्यायु: सुक्रतो क्रत्वायमस्मदा सुतः ॥

    स्वर रहित पद पाठ

    एव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः । क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इति सुऽक्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः ॥ १०.१४४.६

    ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 6
    अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 6

    भावार्थ -
    (इन्दुना) इस दीप्तियुक्त वीर्य के द्वारा ही (इन्द्रः) तेजस्वी पुरुष (तत् महि त्यजः चित्) उस बड़े भारी बल और धन पुत्र आदि को (धारयते) धारण करता है। है (सु-क्रतो) शुभ कर्म करने हारे पुरुष ! (क्रत्वा) कर्म से ही (आयुः वयः वि तारि) आयु और बल बढ़ता है, और (क्रत्वा) यज्ञ कर्म से ही (अयम्) इसे (अस्मत् आसुतः) हम प्राप्त करते और आगे सन्तानादि में इसका उपयोग करते हैं। इति द्वितीयो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिः सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः॥ इन्द्रो देवता॥ छन्दः— १, ३ निचृद्गायत्री। ४ भुरिग्गायत्री। २ आर्ची स्वराड् बृहती। ५ सतोबृहती। ६ निचृत् पंक्तिः॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top