Loading...
ऋग्वेद मण्डल - 10 के सूक्त 45 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 45/ मन्त्र 12
    ऋषिः - वत्सप्रिः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अस्ता॑व्य॒ग्निर्न॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भि॒: सोम॑गोपाः । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥

    स्वर सहित पद पाठ

    अस्ता॑वि । अ॒ग्निः । न॒राम् । सु॒ऽशेवः॑ । वै॒श्वा॒न॒रः । ऋषि॑ऽभिः । सोम॑ऽगोपाः । अ॒द्वे॒षे । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥


    स्वर रहित मन्त्र

    अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभि: सोमगोपाः । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥

    स्वर रहित पद पाठ

    अस्तावि । अग्निः । नराम् । सुऽशेवः । वैश्वानरः । ऋषिऽभिः । सोमऽगोपाः । अद्वेषे । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥ १०.४५.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 45; मन्त्र » 12
    अष्टक » 7; अध्याय » 8; वर्ग » 29; मन्त्र » 6

    भावार्थ -
    वह (नरां सु-शेवः) मनुष्यों में सुख से सेवने योग्य, उत्तम सुखदाता, (वैश्वानरः) सब मनुष्यों का हितकारी, सर्वनायक सर्वोपदेष्टा, सब से प्रशंसनीय (सोम-गोपाः) ऐश्वर्यों वा जीवों का रक्षक (अग्निः) तेजोमय ज्ञानमय प्रभु (अस्तावि) स्तुति किया जाता है। हम (अद्वेषे द्यावापृथिवी हुवेम) द्वेषरहित, प्रेमयुक्त सूर्य-भूमि वत् माता पिता को आदर से प्रार्थना करते हैं और हे (देवाः) विद्वान् जनो ! आप लोग भी (अस्मे सुवीरं रयिं धत्त) हमें उत्तम वीरों, पुत्रों से युक्त ऐश्वर्य प्रदान करो॥ इत्येकोनत्रिंशो वर्गः॥ इत्यष्टमोऽध्यायः॥ इति सप्तमोऽष्टकः।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्वत्सप्रिः॥ अग्निर्देवता॥ छन्द:—१—५, ७ निचृत् त्रिष्टुप्। ६ त्रिष्टुप्। ८ पादनिचृत् त्रिष्टुप्। ९-१२ विराट् त्रिष्टुप्॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top