ऋग्वेद - मण्डल 10/ सूक्त 89/ मन्त्र 6
न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑य॒: सोमो॑ अक्षाः । यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥
स्वर सहित पद पाठन । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । न । धन्व॑ । न । अ॒न्तरि॑क्षम् । न । अद्र॑यः । सोमः॑ । अ॒क्षा॒रिति॑ । यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒ऽनी॒यमा॑नः । शृ॒णाति॑ । वी॒ळु । रु॒जति॑ । स्थि॒राणि॑ ॥
स्वर रहित मन्त्र
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रय: सोमो अक्षाः । यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥
स्वर रहित पद पाठन । यस्य । द्यावापृथिवी इति । न । धन्व । न । अन्तरिक्षम् । न । अद्रयः । सोमः । अक्षारिति । यत् । अस्य । मन्युः । अधिऽनीयमानः । शृणाति । वीळु । रुजति । स्थिराणि ॥ १०.८९.६
ऋग्वेद - मण्डल » 10; सूक्त » 89; मन्त्र » 6
अष्टक » 8; अध्याय » 4; वर्ग » 15; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 15; मन्त्र » 1
विषय - सब से महान् शासक प्रभु।
भावार्थ -
(द्यावापृथिवी) आकाश और पृथिवी (यस्य प्रतिमानं न अक्षास्ताम्) जिसके बराबर माप को नहीं प्राप्त करते (न धन्व) न जल (न अन्तरिक्षम्) न अन्तरिक्ष, (न अद्रयः) न पर्वत वा मेघ, वह (सोमः) समस्त जगत् का शासक और उत्पादक है। (यस्य मन्युः) जिसका ज्ञान, शासन बल, (अधिनीयमानः) सर्वोपरि विराजमान होकर (वीडु शृणाति) बड़े २ बलशालियों को नष्ट करता है और (स्थिराणि रुजति) स्थिरों को भी तोड़ डालता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषि रेणुः॥ देवता—१–४, ६–१८ इन्द्रः। ५ इन्द्रासोमौ॥ छन्द:- १, ४, ६, ७, ११, १२, १५, १८ त्रिष्टुप्। २ आर्ची त्रिष्टुप्। ३, ५, ९, १०, १४, १६, १७ निचृत् त्रिष्टुप्। ८ पादनिचृत् त्रिष्टुप्। १३ आर्ची स्वराट् त्रिष्टुप्॥ अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें