ऋग्वेद - मण्डल 6/ सूक्त 39/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑। अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥१॥
स्वर सहित पद पाठम॒न्द्रस्य॑ । क॒वेः । दि॒व्यस्य॑ । वह्नेः॑ । विप्र॑ऽमन्मनः । व॒च॒नस्य॑ । मध्वः॑ । अपाः॑ । नः॒ । तस्य॑ । स॒च॒नस्य॑ । दे॒व॒ । इषः॑ । यु॒व॒स्व॒ । गृ॒ण॒ते । गोऽअ॑ग्राः ॥
स्वर रहित मन्त्र
मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः। अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥१॥
स्वर रहित पद पाठमन्द्रस्य। कवेः। दिव्यस्य। वह्नेः। विप्रऽमन्मनः। वचनस्य। मध्वः। अपाः। नः। तस्य। सचनस्य। देव। इषः। युवस्व। गृणते। गोऽअग्राः ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 39; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 11; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 11; मन्त्र » 1
विषय - ज्ञानप्राप्ति का उपदेश ।
भावार्थ -
गुरु शिष्य प्रकरण । हे (देव) विद्या की अभिलाषा करने हारे विद्यार्थिन् ! तू ( गृणते ) उपदेश करने वाले गुरु के ( गो-अग्राः इषः ) उत्तम वाणियों से युक्त प्रेरणाओं अर्थात् उपदेशों को ( युवस्व ) प्राप्त कर और उस ( मन्द्रस्य ) स्तुति योग्य, ( कवेः ) क्रान्तदर्शी, ( दिव्यस्य ) ज्ञान प्रकाश में निष्ठ, ( वह्ने: ) विद्या को धारण करने वाले, ( विप्रमन्मनः) विद्वान् मेधावी पुरुष के मनन योग्य ज्ञान को धारण करने वाले, ( सचनस्य ) सत्संग योग्य ( मध्वः वचनस्य ) मधुर वचन का सार ( नः अपाः ) हमें भी पान करा ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। इन्द्रो देवता ॥ छन्दः – १, ३ विराट् त्रिष्टुप् । । २ त्रिष्टुप् । ४, ५ भुरिक् पंक्तिः ।। पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें