Loading...
ऋग्वेद मण्डल - 7 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 29/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒र्ऋषी॑णाम्। अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥४॥

    स्वर सहित पद पाठ

    उ॒तो इति॑ । घ॒ । ते । पु॒रु॒ष्याः॑ । इत् । आ॒स॒न् । येषा॑म् । पूर्वे॑षाम् । अ॒शृ॒णोः॒ । ऋषी॑णाम् । अध॑ । अ॒हम् । त्वा॒ । म॒घ॒ऽव॒न् । जो॒ह॒वी॒मि॒ । त्वम् । नः॒ । इ॒न्द्र॒ । अ॒सि॒ । प्रऽम॑तिः । पि॒ताऽइ॑व ॥


    स्वर रहित मन्त्र

    उतो घा ते पुरुष्या३ इदासन्येषां पूर्वेषामशृणोर्ऋषीणाम्। अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥४॥

    स्वर रहित पद पाठ

    उतो इति। घ। ते। पुरुष्याः। इत्। आसन्। येषाम्। पूर्वेषाम्। अशृणोः। ऋषीणाम्। अध। अहम्। त्वा। मघऽवन्। जोहवीमि। त्वम्। नः। इन्द्र। असि। प्रऽमतिः। पिताऽइव ॥४॥

    ऋग्वेद - मण्डल » 7; सूक्त » 29; मन्त्र » 4
    अष्टक » 5; अध्याय » 3; वर्ग » 13; मन्त्र » 4

    भावार्थ -
    हे ( इन्द्र ) विद्या के ऐश्वर्य का दान करने हारे ! ( उतोघ) और ( येषाम् ) जिन ( पूर्वेषां ऋषीणाम् ) पूर्व के विद्यमान सत्य ज्ञान के द्रष्टा गुरुजनों के ज्ञान को तू ( अशृणोः ) श्रवण करता रह । ( ते इत् ) वे भी निश्चय से ( पुरुष्याः आसन् ) पुरुषों में उत्तम, मनुष्यों के हितकारी ही थे । हे ( मघवन् ) श्रेष्ठ धनवन् ! ( अध ) और ( अहं ) मैं ( त्वा ) तुझे ( जोहवीमि ) अपना गुरु स्वीकार करता हूं, ( त्वं ) तू ( प्रमतिः ) उत्तम ज्ञान और बुद्धि वाला होकर ( नः पिता इव असि ) हमारे पालक पिता के समान है ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: ।। इन्द्रो देवता ।। छन्दः – १ स्वरापंक्तिः । ३ पंक्तिः । २ विराट् त्रिष्टुप् । ४, ५ निचृत्त्रिष्टुप् ।। पञ्चर्चं सूकम् ॥

    इस भाष्य को एडिट करें
    Top