Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1065
ऋषिः - कुत्स आङ्गिरसः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
0
भ꣡रा꣢मे꣣ध्मं꣢ कृ꣣ण꣡वा꣢मा ह꣣वी꣡ꣳषि꣢ ते चि꣣त꣡य꣢न्तः꣣ प꣡र्व꣢णापर्वणा व꣣य꣢म् । जी꣣वा꣡त꣢वे प्रत꣣रा꣡ꣳ सा꣢ध꣣या धि꣡योऽग्ने꣢꣯ स꣣ख्ये꣡ म रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६५॥
स्वर सहित पद पाठभ꣡रा꣢꣯म । इ꣣ध्म꣢म् । कृ꣣ण꣡वा꣢म । ह꣣वी꣡ꣳषि꣢ । ते꣣ । चित꣡य꣢न्तः । प꣡र्व꣢꣯णापर्वणा । प꣡र्व꣢꣯णा । प꣣र्वणा । वय꣣म् । जी꣣वा꣡त꣢वे । प्र꣣तरा꣢म् । सा꣣धय । धि꣡यः꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६५॥
स्वर रहित मन्त्र
भरामेध्मं कृणवामा हवीꣳषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतराꣳ साधया धियोऽग्ने सख्ये म रिषामा वयं तव ॥१०६५॥
स्वर रहित पद पाठ
भराम । इध्मम् । कृणवाम । हवीꣳषि । ते । चितयन्तः । पर्वणापर्वणा । पर्वणा । पर्वणा । वयम् । जीवातवे । प्रतराम् । साधय । धियः । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६५॥
सामवेद - मन्त्र संख्या : 1065
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषय - missing
भावार्थ -
हे अग्ने ! ज्ञानस्वरूप प्रकाशक ! (ते) तेरे लिये (इध्मं) प्रदीप्त, तेजस्वी होने के साधन को (भराम) हम प्रस्तुत करें। (हवींषि) ग्रहण करने योग्य नाना पदार्थों को (कृण्वाम) सम्पादन करें। और (वयं) हम (ते) तेरा (पर्वणा) पोरू पोरु पर, या पूर्ण साधन या प्रति पर्व, या अध्याय अध्याय द्वारा (चितयन्तः) शक्ति और ज्ञान का लाभ करते हुए, (जीवातवे) अपने जीवन के निमित्त (तव सख्ये) तेरे सहयोग या मैत्री में (मा रिषाम) कभी पीड़ित न हों। और तू (प्रतरां) बहुत उत्तम प्रकार से (धियः) हमारी प्रज्ञाओं और कर्मों को (साधय) सुदृढ़ बना।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
इस भाष्य को एडिट करें