Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 335
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
0

स꣣त्राह꣢णं꣣ दा꣡धृ꣢षिं꣣ तु꣢म्र꣣मि꣡न्द्रं꣢ म꣣हा꣡म꣢पा꣣रं꣡ वृ꣢ष꣣भ꣢ꣳ सु꣣व꣡ज्र꣢म् । ह꣢न्ता꣣ यो꣢ वृ꣣त्र꣡ꣳ सनि꣢꣯तो꣣त꣢꣫ वाजं꣣ दा꣢ता꣢ म꣣घा꣡नि꣢ म꣣घ꣡वा꣢ सु꣣रा꣡धाः꣢ ॥३३५॥

स्वर सहित पद पाठ

स꣣त्राह꣡ण꣢म् । स꣣त्रा । ह꣡न꣢꣯म् । दा꣡धृ꣢꣯षिम् । तु꣡म्रम् । इ꣡न्द्र꣢꣯म् । म꣣हा꣢म् । अ꣣पार꣢म् । अ꣣ । पार꣢म् । वृ꣢षभम् । सु꣣व꣡ज्र꣢म् । सु꣣ । व꣡ज्र꣢꣯म् । ह꣡न्ता꣢꣯ । यः । वृ꣣त्र꣢म् । स꣡नि꣢꣯ता । उ꣣त꣢ । वा꣡ज꣢म् । दा꣡ता꣢꣯ । म꣣घा꣡नि꣢ । म꣣घ꣡वा꣢ । सु꣣रा꣡धाः꣢ । सु꣣ । रा꣡धाः꣢꣯ ॥३३५॥


स्वर रहित मन्त्र

सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभꣳ सुवज्रम् । हन्ता यो वृत्रꣳ सनितोत वाजं दाता मघानि मघवा सुराधाः ॥३३५॥


स्वर रहित पद पाठ

सत्राहणम् । सत्रा । हनम् । दाधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । अ । पारम् । वृषभम् । सुवज्रम् । सु । वज्रम् । हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघवा । सुराधाः । सु । राधाः ॥३३५॥

सामवेद - मन्त्र संख्या : 335
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( सत्राहणं ) = सब विघ्न और उपद्रवों के नाशक ( दाधृषिं  ) = सबको दबाने वाले ( तुम्रं  ) = सबके प्रेरक, ( अपारं ) = ( वृषभं ) = सबसे श्रेष्ठ, ( सुवज्रं ) = उत्तम वज्र को धारण करने हारे, ( महाम् ) = बड़े भारी और ( यः वृत्रहन्ता ) = जो वृत्ररूप अज्ञान को मारता ( उत वाजं सनिता ) = ज्ञान और अन्न का विभाग कर देनेहारा, ( सुराधाः ) = उत्तम साधनों और धनों से सम्पन्न या उत्तमरूप से आराधन करने योग्य, ( मघानि दाता ) = ऐश्वर्यों और कर्मफलों को देनेहारा है उसको ( इन्द्रं ) = ‘इन्द्र' कहो, जानो  ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वामदेव:।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् ।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top