ऋग्वेद - मण्डल 4/ सूक्त 29/ मन्त्र 1
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः। ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥१॥
स्वर सहित पद पाठआ । नः॒ । स्तु॒तः । उप॑ । वाजे॑भिः । ऊ॒ती । इन्द्र॑ । या॒हि । हरि॑ऽभिः । म॒न्द॒सा॒नः । ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । पु॒रूणि । आ॒ङ्गू॒षेभिः॑ । गृ॒णा॒नः । स॒त्यऽरा॑धाः ॥
स्वर रहित मन्त्र
आ नः स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः। तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥१॥
स्वर रहित पद पाठआ। नः। स्तुतः। उप। वाजेभिः। ऊती। इन्द्र। याहि। हरिऽभिः। मन्दसानः। तिरः। चित्। अर्यः। सवना। पुरूणि। आङ्गूषेभिः। गृणानः। सत्यऽराधाः ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 29; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 18; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 18; मन्त्र » 1
विषय - उत्तम राजा के कर्त्तव्य ।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! राजन् ! आप (मन्दसानः) हर्षयुक्त होकर (वाजेभिः) बलवान् वीरपुरुषों और (हरिभिः) विद्वान् पुरुषों से (तुतः) प्रशंसित होकर (ऊती) रक्षण आदि सामर्थ्य-सहित (नः उप याहि) हमें प्राप्त हों। और तू (अर्यः) सबका स्वामी (सत्यराधाः) सत्य ऐश्वर्यवान्, न्यायशील होकर (आंगूषेभिः) उत्तम स्तुतियों और उपदेशों द्वारा (गृणानः) स्तुति और उपदेश युक्त होता हुआ, (पुरूणि सवना) बहुत से ऐश्वर्यों को (तिरः चित्) आदरपूर्वक हमें प्राप्त हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वामदेव ऋषिः॥ इन्द्रो देवता॥ छन्दः– १ विराट् त्रिष्टुप् । ३ निचृत्त्रिष्टुप । ४, २ त्रिष्टुप्। ५ स्वराट् पंक्तिः॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें