Loading...
ऋग्वेद मण्डल - 10 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 10/ मन्त्र 1
    ऋषिः - यमी वैवस्वती देवता - यमो वैवस्वतः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥

    स्वर सहित पद पाठ

    ओ इति॑ । चि॒त् । सखा॑यम् । स॒ख्या । व॒वृ॒त्या॒म् । ति॒रः । पु॒रु । चि॒त् । अ॒र्ण॒वम् । ज॒ग॒न्वान् । पि॒तुः । नपा॑तम् । आ । द॒धी॒त॒ । वे॒धाः । अधि॑ । क्षमि॑ । प्र॒ऽत॒रम् । दीध्या॑नः ॥


    स्वर रहित मन्त्र

    ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् । पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥

    स्वर रहित पद पाठ

    ओ इति । चित् । सखायम् । सख्या । ववृत्याम् । तिरः । पुरु । चित् । अर्णवम् । जगन्वान् । पितुः । नपातम् । आ । दधीत । वेधाः । अधि । क्षमि । प्रऽतरम् । दीध्यानः ॥ १०.१०.१

    ऋग्वेद - मण्डल » 10; सूक्त » 10; मन्त्र » 1
    अष्टक » 7; अध्याय » 6; वर्ग » 6; मन्त्र » 1

    पदार्थः -
    (पुरु चित्-तिरः-अर्णवम्-जगन्वान्) पुरूणां बहूनाम् ‘सुपां सुपो भवन्तीति’ षष्ठीबहुवचने प्रथमाद्विवचनं पदपाठाग्रहेण षष्ठीबहुवचनप्रत्ययस्य लुक्। चित्-चेतयिता। सूर्यस्तिरस्तीर्णं सुविस्तृतमर्णवम्, अर्णवः समुद्रस्तमन्तरिक्षम् “समुद्र-इत्यन्तरिक्षनामसु पठितम् [निघ० १।३] तथा-अर्णः-जलं तद्वन्तमाकाशं जगन्वान् प्राप्तवान् अन्तरिक्षे स्थित इत्यर्थः। तदा किं जातमित्युच्यते (चित्) हे चेतनशील ! अन्यान् चेतयितो दिवस ! (सखायं सख्या) अहं यमी रात्रिस्त्वां सखायं पूर्वतः सखीभूतं पतिमित्यर्थः, सख्या-सख्याय मित्रत्वाय, सख्यशब्दात् ‘ङे’ स्थाने आकारादेशः “सुपां सुलुक्”-[अष्टा० ७।१।३९]  इत्यनेन। (आ-ववृत्याम्-उ) अतिशयेनावर्तयाम्येव-सुतरामाह्वयामि हि। आङ्पूर्वकवृतुधातोर्लिङि रूपं लडर्थे शपश्श्लुश्च “बहुलं छन्दसि” [अष्टा० २।१।७६] सूत्रेण, व्यत्ययेन परस्मैपदं च (अधिक्षमि) पृथिव्या अधोभागे पृथिव्यधिकृता। कुतः ? यदहमत्र पृथिव्या अधो भागेऽस्मि तस्मान्मत्समीपमागच्छेत्यर्थः (प्रतरम्) प्रकृष्टं तरन्ति जना दुःखमनेनेति प्रतरं योग्यसन्तानं पितृ-णस्योन्नायकं (दीध्यानः) ध्यायन्-लक्षयनिति यावत् (वेधाः) मेधावी (पितुः-नपातम्) जनकस्य नप्तारं स्वकीयपुत्रमित्यर्थः (आदधीत) गर्भाधानरीत्या मयि स्थापयेति गर्भाधानस्य प्रस्तावः ॥१॥

    इस भाष्य को एडिट करें
    Top