Loading...
ऋग्वेद मण्डल - 10 के सूक्त 104 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 104/ मन्त्र 1
    ऋषिः - अष्टको वैश्वामित्रः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    असा॑वि॒ सोम॑: पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय॑म् । तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इ॑न्द्र॒ पिबा॑ सु॒तस्य॑ ॥

    स्वर सहित पद पाठ

    असा॑वि । सोमः॑ । पु॒रु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । या॒हि॒ । तूय॑म् । तुभ्य॑म् । गिरः॑ । विप्र॑ऽवीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब॑ । सु॒तस्य॑ ॥


    स्वर रहित मन्त्र

    असावि सोम: पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयम् । तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥

    स्वर रहित पद पाठ

    असावि । सोमः । पुरुऽहूत । तुभ्यम् । हरिऽभ्याम् । यज्ञम् । उप । याहि । तूयम् । तुभ्यम् । गिरः । विप्रऽवीराः । इयानाः । दधन्विरे । इन्द्र । पिब । सुतस्य ॥ १०.१०४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 104; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 24; मन्त्र » 1

    पदार्थः -
    (पुरुहूत-इन्द्र) हे बहुभिः प्रकारैः-ह्वातव्य, यद्वा बहुह्वातव्य ! ऐश्वर्यवन् परमात्मन् ! (तुभ्यं सोमः-असावि) तुभ्यमस्माभि-रुपासनारसः “रसः सोमः” [श० ७।३।१।३] सम्पादितः (यज्ञं हरिभ्यां तूयम्-उप याहि) अस्माकमध्यात्मयज्ञं दुःखहरणाभ्यां कृपाप्रसादाभ्यां सह शीघ्रमुपागतो भव (तुभ्यं विप्रवीराः-गिरः-इयाना-दधन्विरे) तुभ्यं मेधावि प्रेरयितारः-त्वां प्रति स्तुतिः-गमनशीलाः “ईङ् गतौ” ताच्छीलिकः चानश् प्रत्ययः “ताच्छील्यवयोवचनशक्तिषु चानश्” [अष्टा० ३।२।१२९] त्वां प्रति गमयन्ति “धवि गत्यर्थः” [भ्वादि०] (सुतस्य पिब) सुतं निष्पादितमुपासनारसम् “ द्वितीयास्थाने षष्ठी व्यत्ययेन” स्वीकुरु “न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय। राजेव दस्म निषदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तुते” [ऋ० १०।४३।२] यथाऽत्र सोमपानमिन्द्राय परमात्मने प्रस्तूयते तद्वत् प्रस्तुतमन्त्रेऽपि ॥१॥

    इस भाष्य को एडिट करें
    Top