Loading...
ऋग्वेद मण्डल - 10 के सूक्त 106 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 106/ मन्त्र 1
    ऋषिः - भुतांशः काश्यपः देवता - अश्विनौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व । स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥

    स्वर सहित पद पाठ

    उ॒भौ । ऊँ॒ इति॑ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति॑ । वि । त॒न्वा॒थे॒ इति॑ । धियः॑ । वस्त्रा॑ । अ॒पसा॑ऽइव । स॒ध्री॒ची॒ना । यात॑वे । प्र । ई॒म् । अ॒जी॒ग॒रिति॑ । सु॒दिना॑ऽइव । पृक्षः॑ । आ । तं॒स॒ये॒थे॒ इति॑ ॥


    स्वर रहित मन्त्र

    उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥

    स्वर रहित पद पाठ

    उभौ । ऊँ इति । नूनम् । तत् । इत् । अर्थयेथे इति । वि । तन्वाथे इति । धियः । वस्त्रा । अपसाऽइव । सध्रीचीना । यातवे । प्र । ईम् । अजीगरिति । सुदिनाऽइव । पृक्षः । आ । तंसयेथे इति ॥ १०.१०६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 106; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    (उभा-उ) उभौ ‘अश्विनौ’ हि सुशिक्षितौ स्त्रीपुरुषौ “अश्विना सुशिक्षिता स्त्रीपुरुषौ” [यजु० ३८।१२ दयानन्दः] यद्वा-अध्यापक-उपदेशकौ “अश्विना अध्यापकोपदेशकौ” [ऋ० ५।७८।३ दयानन्दः] (नूनम्) अद्यतनम् “नूनमस्त्यद्यतनम्” [निरु० १।६] (तत्-इत्) तदेव ब्रह्म (अर्थयेथे) प्रार्थयथां यत्प्राप्तये (धियः-वितन्वाथे) कर्माणि “धीः कर्मनाम” [निघ० २।१] वितनुथः (अपसा-इव वस्त्रा) अपस्विनौ कर्मिणौ शिल्पकर्मिणौ तन्तुवायाविव “अपस् कर्मनाम” [निघ० २।१] ‘मतुबर्थप्रत्ययस्य लोपश्छान्दसः यद्वा अपस् शब्दात् अकारो मत्वर्थीयश्छान्दसः पुनर्द्विवचने-आकारादेशश्छान्दसः “सुपां सुलुक्पूर्वसर्वणाच्छेया” [अष्टा० ७।१।३९] इत्यनेन, यथा वस्त्राणि वितनुतस्तथा (सध्रीचीना) सह गच्छन्तौ गृहस्थकार्ये विद्याप्रचारे वा सह कार्यं कुर्वन्तौ (यातवे) यात्रायै गच्छन्तौ (ईम् प्र-अजीगः) तद् ब्रह्म युवयोरेकैकः स्तुहि यद्वा परस्परं प्रशंस (सुदिना-इव) सुन्दराहोरात्राणि इव इति पदपूरणः (पृक्षः-आ तंसयेथे) अन्नम् “पृक्षः अन्ननाम” [निघ० २।७] यद्वा विज्ञानम् “पृक्षः सुखसम्पर्कनिमित्तं विज्ञानम्” [ऋ० १।४७।६ दयानन्दः] समन्तादलङ्कुरुथः संस्कुरुथः तसि भूष अलङ्कारे [चुरादि०] ॥१॥

    इस भाष्य को एडिट करें
    Top