ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 1
वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः । विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥
स्वर सहित पद पाठवृषा॑ । वृष्णे॑ । दु॒दु॒हे॒ । दोह॑सा । दि॒वः । पयां॑सि । य॒ह्वः । अदि॑तेः । अदा॑भ्यः । विश्व॑म् । सः । वे॒द॒ । वरु॑णः । यथा॑ । धि॒या । सः । य॒ज्ञियः॑ । य॒ज॒तु॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥
स्वर रहित मन्त्र
वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥
स्वर रहित पद पाठवृषा । वृष्णे । दुदुहे । दोहसा । दिवः । पयांसि । यह्वः । अदितेः । अदाभ्यः । विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून् ॥ १०.११.१
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 9; मन्त्र » 1
विषयः - अत्र सूक्तेऽग्निशब्देन सूर्यपरमात्मानौ गृह्येते प्रधानतयाऽध्मात्मराष्ट्र-समृद्धिविषयकप्रकारश्चोपदिश्यते।
पदार्थः -
(यह्वः) महान् “यह्वो महन्नाम” [निघ०१।३] (अदाभ्यः) अहिंसनीयः (वृषा) सुखवृष्टिकर्त्ता परमात्मा सूर्यो वा (वृष्णे) राष्ट्रे सुखवर्षकाय राजन्याय-राज्ञे “वृषा वै राजन्यः” [ता०६।१०।९] देहे सुखवर्षकाय मनसे “वृषा हि मनः” [श०१।४।४।३] वृष्टिकर्त्रे पर्जन्याय मेघाय वा “वृषा पर्जन्यः” [तै०सं०२।४।९।४] (अदितेः-दिवः) अनश्वरान्मोक्षादमृतधामतः “त्रिपादस्यामृतं दिवि” [ऋ०१०।९०।३] द्युलोकादाकाशाद्वा (पयांसि) आनन्दरसान्, जलानि जलांशान् वा (दोहसा दुदुहे) दोहनसामर्थ्येन दोग्धि प्रपूरयति (सः) परमात्मा सूर्यो वा (वरुणः) वरयिता सन् (विश्वं वेद) सर्वं ह्यास्तिकमनो नास्तिकमनो वेत्ति सर्वं जगत्-पृथिवीप्रदेशान् लभते (यथा) यथा खलु (सः-यज्ञियः) स सङ्गमनधर्मा (धिया) प्रज्ञया कर्मणा वा (यज्ञियान्-ऋतून् यजतु) सङ्गमनीयानृतून्-अवसरान् “अत्यन्तसंयोगे द्वितीया” [अष्टा०२।३।५] उपासकान् सुखेन सह, जडजङ्गमान् जडेन सह वा सङ्गमयतु ॥१॥