Loading...
ऋग्वेद मण्डल - 10 के सूक्त 112 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 112/ मन्त्र 1
    ऋषिः - नभःप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः । हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥

    स्वर सहित पद पाठ

    इन्द्र॑ । पिब॑ । प्र॒ति॒ऽका॒मम् । सु॒तस्य॑ । प्रा॒तः॒ऽसा॒वः । तव॑ । हि । पू॒र्वऽपी॑तिः । हर्ष॑स्व । हन्त॑वे । शू॒र॒ । शत्रू॑न् । उ॒क्थेभिः॑ । ते॒ । वी॒र्या॑ । प्र । ब्र॒वा॒म॒ ॥


    स्वर रहित मन्त्र

    इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः । हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या३ प्र ब्रवाम ॥

    स्वर रहित पद पाठ

    इन्द्र । पिब । प्रतिऽकामम् । सुतस्य । प्रातःऽसावः । तव । हि । पूर्वऽपीतिः । हर्षस्व । हन्तवे । शूर । शत्रून् । उक्थेभिः । ते । वीर्या । प्र । ब्रवाम ॥ १०.११२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 112; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 12; मन्त्र » 1

    पदार्थः -
    (इन्द्र) हे ऐश्वर्यवन् प्रभो ! (सुतस्य) सुतं निष्पादितमुपासनारसम्, ‘व्यत्ययेन षष्ठी द्वितीयास्थाने’ (प्रतिकामं पिब) कामं कामं प्रतिकामानुरूपं यं यं काममनुलक्ष्य सम्पादितमुपासनारसं तत्पूर्त्यर्थं पिब स्वीकुरु (तव प्रातः सावः-हि पूर्वपीतिः) तव प्रातरेव स्तोतव्यः-उपासनारसः, एषा प्रमुखपीतिस्ते नाऽन्यापेक्ष्यते त्वया (हर्षस्व) एतां पीतिं प्राप्य हर्षितो भव (शूर शत्रून् हन्तवे) हे पराक्रमिन् ! मदीयकामादीन् शत्रून् हन्तुं (उक्थेभिः-ते वीर्या प्र ब्रवाम) प्रशस्तवचनैस्तव गुणवीर्याणि प्रकृष्टं ब्रूम ॥१॥

    इस भाष्य को एडिट करें
    Top