Loading...
ऋग्वेद मण्डल - 10 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 2
    ऋषिः - शतप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते । दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥

    स्वर सहित पद पाठ

    तम् । अ॒स्य॒ । विष्णुः॑ । म॒हि॒मान॑म् । ओज॑सा । अं॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि । र॒प्श॒ते॒ । दे॒वेभिः॑ । इन्द्रः॑ । म॒घऽवा॑ । स॒याव॑ऽभिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे॑ण्यः ॥


    स्वर रहित मन्त्र

    तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते । देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वाँ अभवद्वरेण्यः ॥

    स्वर रहित पद पाठ

    तम् । अस्य । विष्णुः । महिमानम् । ओजसा । अंशुम् । दधन्वान् । मधुनः । वि । रप्शते । देवेभिः । इन्द्रः । मघऽवा । सयावऽभिः । वृत्रम् । जघन्वान् । अभवत् । वरेण्यः ॥ १०.११३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 2
    अष्टक » 8; अध्याय » 6; वर्ग » 14; मन्त्र » 2

    पदार्थः -
    (अस्य मधुनः-अंशुं दधन्वान्) अस्य मधुरसुखदस्य राष्ट्रैश्वर्यस्य संविभागं राजापदं प्राप्नुवन् “दधन्वान् धरन्” [यजु० १९।२] (विष्णुः) सर्वराजगुणेषु व्याप्तः “विष्णुः सर्वगुणेषु व्यापनशीलः” [ऋ० १।९।९ दयानन्दः] इन्द्रो राजा (तं महिमानम्-ओजसा-वि रप्शते) तस्य तं महत्त्वं स्वरूपं स्वबलेन विशिष्टं राजते प्रकाशयति प्रसिद्धं करोति यशस्विनं करोति “रप्शते विशेषेण राजते” [ऋ० ४।४५।१ दयानन्दः] (मघवा-इन्द्रः) स ऐश्वर्यवान् राजा (सयावभिः-देवेभिः) सह गन्तृभिर्युद्धं विजिगीषुभिः सैनिकैः “सयावभिः-ये सह यान्ति तैः” [यजु० ३३।१५] (वृत्रं जघन्वान्) आवरकमाक्रमणकारिणं शत्रुं हन्ति (वरेण्यः-अभवत्) स राजा वरणीयः निर्वाचने स्वीकार्यः भवति ॥२॥

    इस भाष्य को एडिट करें
    Top