ऋग्वेद - मण्डल 10/ सूक्त 117/ मन्त्र 3
ऋषिः - भिक्षुः
देवता - धनान्नदानप्रशंसा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ । अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यम् ॥
स्वर सहित पद पाठसः । इत् । भो॒जः । यः । गृ॒हवे॑ । ददा॑ति । अन्न॑ऽकामाय । चर॑ते । कृ॒शाय॑ । अर॑म् । अ॒स्मै॒ । भ॒व॒ति॒ । याम॑ऽहूतौ । उ॒त । अ॒प॒रीषु॑ । कृ॒णु॒ते॒ । सखा॑यम् ॥
स्वर रहित मन्त्र
स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय । अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥
स्वर रहित पद पाठसः । इत् । भोजः । यः । गृहवे । ददाति । अन्नऽकामाय । चरते । कृशाय । अरम् । अस्मै । भवति । यामऽहूतौ । उत । अपरीषु । कृणुते । सखायम् ॥ १०.११७.३
ऋग्वेद - मण्डल » 10; सूक्त » 117; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 22; मन्त्र » 3
अष्टक » 8; अध्याय » 6; वर्ग » 22; मन्त्र » 3
पदार्थः -
(सः-इत्-भोजः) सः पुरुषो हि भोजयिताऽन्येभ्यो भोजनदाताऽस्ति (यः-गृहवे) योऽन्नग्रहणकर्त्रे (अन्नकामाय) अन्नमिच्छुकाय (चरते) विचरते-आगन्तुकाय (कृशाय) अपुष्टशरीराय (ददाति) अन्नं ददाति (अस्मै यामहूतौ-अरं भवति) अस्मै दात्रे यामस्य समयस्य-हूतौ-आहूतौ-आवश्यकतायाः समये-इति यावत् पर्याप्तं भवति (उत) अपि च (अपरीषु सखायं कृणुते) अन्यासु प्रजासु तासामात्मानं सखायं करोति स दाता ॥३॥