ऋग्वेद - मण्डल 10/ सूक्त 124/ मन्त्र 1
ऋषिः - अग्निवरुणसोमानां निहवः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् । असो॑ हव्य॒वाळु॒त न॑: पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥
स्वर सहित पद पाठइ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् । असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥
स्वर रहित मन्त्र
इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । असो हव्यवाळुत न: पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥
स्वर रहित पद पाठइमम् । नः । अग्ने । उप । यज्ञम् । आ । इहि । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् । असः । हव्यऽवाट् । उत । नः । पुरःऽगाः । ज्योक् । एव । दीर्घम् । तमः । आ । अशयिष्ठाः ॥ १०.१२४.१
ऋग्वेद - मण्डल » 10; सूक्त » 124; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 9; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 9; मन्त्र » 1
विषयः - अत्र सूक्ते शरीररूपेऽन्धकारे बहुकालाद् वसन्नात्मा मुक्तिं काङ्क्षति तत्र सत्यकामाः प्रेरयन्ति यदितोऽन्यत्र गन्तव्यं यत्र स्वराज्यं स्वातन्त्र्यं भवेत् साङ्कल्पिकेन्द्रियवृन्दं शरीरमपि साङ्कल्पिकमिति मोक्षे प्रार्थ्यते।
पदार्थः -
(अग्ने) हे शरीरस्याग्रणायक ! आत्मन् (नः) जाठराग्निप्राणेन्द्रिया-णामस्माकं (पञ्चयामम्) पञ्च यमयितारो नियमयितारो सङ्ग्रहीतारः पृथिव्यादयः पदार्था यस्य तथाभूतं (त्रिवृतम्) त्रिषु वातपित्तश्लेष्मसु दोषेषु वर्तते यस्तं (सप्त तन्तुम्) सप्त रसरक्तमांसमेदोऽस्थिमज्ज-शुक्राणि तन्तवो विस्तारका यस्य तं (यज्ञम्) देहयज्ञम् “पुरुषो वाव यज्ञस्तस्य चतुर्विंशतिवर्षाणि प्रातःसवनम्” [छान्दो० प्र० ३ खं० १६ मं० १] (उप आ इहि) उपागच्छ-उपेत्य प्रविश (हव्यवाहः-उत पुरोगः-असः) त्वमस्माकं हव्यवाहनः उपयोज्यवस्तुवाहकः पुरोगन्ता च भव-भवति (ज्योक्-एव दीर्घं तमः) चिरं हि दीर्घे तमसि (आ अशयिष्ठाः) समन्ताच्छेस्व-सुरक्षितो भव न त्वां कश्चित् पश्येद् दृष्ट्वा पीडयेत् ॥१॥