Loading...
ऋग्वेद मण्डल - 10 के सूक्त 129 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 129/ मन्त्र 2
    ऋषिः - प्रजापतिः परमेष्ठी देवता - भाववृत्तम् छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥

    स्वर सहित पद पाठ

    न । मृ॒त्युः । आ॒सी॒त् । अ॒मृत॑म् । न । तर्हि॑ । न । रात्र्याः॑ । अह्नः॑ । आ॒सी॒त् । प्र॒ऽके॒तः । आनी॑त् । अ॒वा॒तम् । स्व॒धया॑ । तत् । एक॑म् । तस्मा॑त् । ह॒ । अ॒न्यत् । न । प॒रः । किम् । च॒न । आ॒स॒ ॥


    स्वर रहित मन्त्र

    न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥

    स्वर रहित पद पाठ

    न । मृत्युः । आसीत् । अमृतम् । न । तर्हि । न । रात्र्याः । अह्नः । आसीत् । प्रऽकेतः । आनीत् । अवातम् । स्वधया । तत् । एकम् । तस्मात् । ह । अन्यत् । न । परः । किम् । चन । आस ॥ १०.१२९.२

    ऋग्वेद - मण्डल » 10; सूक्त » 129; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 2

    पदार्थः -
    (मृत्युः-न-आसीत्) सृष्टितः पूर्वं मृत्युर्मारकोऽपि नासीत् (तर्हि) तदा, मृत्योरभावेऽमृतं भवेत्, उच्यते (अमृतं न) अमृतं नासीत् (रात्र्याः-अह्नः प्रकेतः-न-आसीत्) रात्रेर्दिनस्य प्रज्ञानं पूर्वरूपमपि नासीत् (तत्-एकम्-अवातम्) तदा खल्वेकं तत्त्वं वायोरपेक्षारहितं (स्वधया-आनीत्) स्वधारणशक्त्या जीवनं धारयत्सदासीत् तद्ब्रह्मतत्त्वमासीत् (तस्मात्-अन्यत् किञ्चन-परः-न-आस) ततो भिन्नं किमपि नासीत् ॥२॥

    इस भाष्य को एडिट करें
    Top