Loading...
ऋग्वेद मण्डल - 10 के सूक्त 133 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 133/ मन्त्र 1
    ऋषिः - सुदाः पैजवनः देवता - इन्द्र: छन्दः - शक्वरी स्वरः - धैवतः

    प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

    स्वर सहित पद पाठ

    प्रो इति॑ । सु । अ॒स्मै॒ । पु॒रः॒ऽर॒थम् । इन्द्रा॑य । शू॒षम् । अ॒र्च॒त॒ । अ॒भीके॑ । चि॒त् । ऊँ॒ इति॑ । लो॒क॒ऽकृत् । स॒म्ऽगे । स॒मत्ऽसु॑ । वृ॒त्र॒ऽहा । अ॒स्माक॑म् । बो॒धि॒ । चो॒दि॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥


    स्वर रहित मन्त्र

    प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

    स्वर रहित पद पाठ

    प्रो इति । सु । अस्मै । पुरःऽरथम् । इन्द्राय । शूषम् । अर्चत । अभीके । चित् । ऊँ इति । लोकऽकृत् । सम्ऽगे । समत्ऽसु । वृत्रऽहा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥ १०.१३३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 133; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 21; मन्त्र » 1

    पदार्थः -
    (अस्मै-इन्द्राय) अस्येन्द्रस्य-अस्य राज्ञः “षष्ठ्यर्थे चतुर्थीत्यपि वक्तव्यमिति वार्तिकेन [अष्टा० २।३।६२ चतुर्थी” (पुरोरथम्) रथस्य पुरस्तात् (शूषम्-उ सु प्र-अर्चत) सैन्यबलम् “शूषं बलनाम” [निघ० २।९] अवश्यं प्रशंसत यतः स इन्द्रो राजा रथस्थः (समत्सु-अभीके चित्) सङ्ग्रामेषु “समत्सु सङ्ग्रामनाम” [निघ० २।१७] समीपे “अभीके इत्यासन्नस्य-अभ्यक्ते” [निरु० ३।२०] अपि (सङ्गे) साम्मुख्ये (लोककृत्) स्वस्थानकृत् अविचलितः सन् (वृत्रहा) शत्रुनाशकः (अस्माकं चोदिता बोधि) अस्माकं प्रेरयिता सन् बोधयेत् (अन्यकेषां ज्याकाः) अन्येषां शत्रूणां कुत्सिता ज्याः खल्वपि (धन्वसु-अधि नभन्ताम्) धनुष्षु बद्धाः खलु नश्यन्ताम् “णभ हिंसायाम्” [भ्वादि०] ॥१॥

    इस भाष्य को एडिट करें
    Top