ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 14
य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायु॒: प्र जी॒वसे॑ ॥
स्वर सहित पद पाठय॒माय॑ । घृ॒तऽव॑त् । ह॒विः । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ । सः । नः॒ । दे॒वेषु॑ । आ । य॒म॒त् । दी॒र्घम् । आयुः॑ । प्र । जी॒वसे॑ ॥
स्वर रहित मन्त्र
यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वा यमद्दीर्घमायु: प्र जीवसे ॥
स्वर रहित पद पाठयमाय । घृतऽवत् । हविः । जुहोत । प्र । च । तिष्ठत । सः । नः । देवेषु । आ । यमत् । दीर्घम् । आयुः । प्र । जीवसे ॥ १०.१४.१४
ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 14
अष्टक » 7; अध्याय » 6; वर्ग » 16; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 16; मन्त्र » 4
पदार्थः -
(यमाय घृतवत्-हविः-जुहोत प्रतिष्ठत च) यमाय पूर्वोक्ताय जीवनकालाय विश्वकालाय वा तत्सौष्ठ्यसम्पादनायेत्यर्थः। घृतयुक्तं हवनं जुहोत कुरुत प्रतिष्ठत च तत्र प्रकृष्टतां च प्राप्नुत (सः-नः-जीवसे देवेषु दीर्घम् आयुः प्रायमत्) सोऽस्माकं जीवनाय देवेष्विन्द्रियेषु दीर्घस्थायित्वं विस्तारयति ॥१४॥