ऋग्वेद - मण्डल 10/ सूक्त 140/ मन्त्र 1
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥
स्वर सहित पद पाठअग्ने॑ । तव॑ । श्रवः॑ । वयः॑ । महि॑ । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । शव॑सा । वाज॑म् । उ॒क्थ्यृ॑अ॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे॒ ॥
स्वर रहित मन्त्र
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । बृहद्भानो शवसा वाजमुक्थ्यं१ दधासि दाशुषे कवे ॥
स्वर रहित पद पाठअग्ने । तव । श्रवः । वयः । महि । भ्राजन्ते । अर्चयः । विभावसो इति विभाऽवसो । बृहद्भानो इति बृहत्ऽभानो । शवसा । वाजम् । उक्थ्यृअम् । दधासि । दाशुषे । कवे ॥ १०.१४०.१
ऋग्वेद - मण्डल » 10; सूक्त » 140; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 28; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 28; मन्त्र » 1
विषयः - अत्र सूक्ते परमात्मा आत्मसमर्पिणे स्तोत्रे मोक्षं प्रयच्छति, अमृतान्नभोगं ददाति, सर्वेभ्यो भोग्यं वस्तु च, संसारस्योत्पादयिता पालकश्च तस्य श्रवणं वेदाद्गृह्यत इत्यादयो विषयाः सन्ति।
पदार्थः -
(विभावसो-अग्ने) हे विशिष्टदीप्त्या वासशील ! अग्रणायक परमात्मन् ! (तव महि श्रवः-वयः) तव महत् खलु शृण्वन्ति सर्वा विद्याः-येन तद्वेदप्रवचनम् “श्रवः शृण्वन्ति सर्वा विद्याः येन” [ऋ० १।४०।४ दयानन्दः] वयः-विज्ञानम् “वयः विज्ञानम्” [ऋ० १।७१।७ दयानन्दः] (अर्चयः) ज्ञानदीप्तयः (भ्राजन्ते) प्रकाशन्ते (बृहद्भानो कवे) हे महत्तेजस्विन् सर्वज्ञ परमात्मन् ! (शवसा) आत्मबलेन (दाशुषे) आत्मानं दत्तवते (उक्थ्यं वाजं दधासि) प्रशंसनीयममृतान्नं धारयसि ददासीत्यर्थः “अमृतोऽन्नं वै वाजः” [जै० २।१९३] ॥१॥