ऋग्वेद - मण्डल 10/ सूक्त 140/ मन्त्र 6
ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॑: । श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥
स्वर सहित पद पाठऋ॒तऽवा॑नम् । म॒हि॒षम् । वि॒श्वऽद॑र्शतम् । अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ । श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । त्वा॒ । गि॒रा । दैव्य॑म् । मानु॑षा । यु॒गा ॥
स्वर रहित मन्त्र
ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जना: । श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥
स्वर रहित पद पाठऋतऽवानम् । महिषम् । विश्वऽदर्शतम् । अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः । श्रुत्ऽकर्णम् । सप्रथःऽतमम् । त्वा । गिरा । दैव्यम् । मानुषा । युगा ॥ १०.१४०.६
ऋग्वेद - मण्डल » 10; सूक्त » 140; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 28; मन्त्र » 6
अष्टक » 8; अध्याय » 7; वर्ग » 28; मन्त्र » 6
पदार्थः -
(ऋतावानम्) ऋतवानं सत्यज्ञानवन्तं (महिषम्) महान्तम् “महिषो महन्नाम” [निघ० ३।३] (विश्वदर्शतम्) विश्वैः सर्वैदर्शनीयम् (अग्निम्) अग्रणीं परमात्मानं (सुम्नाय) सुखप्राप्त्यै (जनाः) मनुष्याः (पुरः-दधिरे) सर्वप्रथमं धारयन्ति-ध्यायन्ति (श्रुत्कर्णम्) शृणोतीति श्रुतकर्णो यस्य स-श्रुत्कर्णः श्रवणाय कर्णप्रवृत्तिकं (सप्रथस्तमम्) स-प्रख्यातयशसं (दैव्यं त्वा) जीवन्मुक्तेभ्यो हितं त्वां (मानुषा युगा गिरा) मानुषाणि युगानि युगलानि सपत्नीका मनुष्याः स्तुत्या स्तुवन्तीति शेषः ॥६॥