Loading...
ऋग्वेद मण्डल - 10 के सूक्त 145 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 145/ मन्त्र 1
    ऋषिः - इन्द्राणी देवता - उपनिषत्सपत्नीबाधनम् छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् । यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ॥

    स्वर सहित पद पाठ

    इ॒माम् । ख॒ना॒मि॒ । ओष॑धिम् । वी॒रुध॑म् । बल॑वत्ऽतमाम् । यया॑ । स॒ऽपत्नी॑म् । बाध॑ते । यया॑ । स॒म्ऽवि॒न्दते॑ । पति॑म् ॥


    स्वर रहित मन्त्र

    इमां खनाम्योषधिं वीरुधं बलवत्तमाम् । यया सपत्नीं बाधते यया संविन्दते पतिम् ॥

    स्वर रहित पद पाठ

    इमाम् । खनामि । ओषधिम् । वीरुधम् । बलवत्ऽतमाम् । यया । सऽपत्नीम् । बाधते । यया । सम्ऽविन्दते । पतिम् ॥ १०.१४५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 145; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 3; मन्त्र » 1

    पदार्थः -
    (इमाम्-ओषधिम्) एतां दोषं पिबन्तीम् “ओषधयः-दोषं धयन्तीति वा” [निरु० ९।२७] (बलवत्तमां वीरुधम्) बलिष्ठां विशेषेण रोहणसमर्थाम् (खनामि) निष्पादयामि “खनामि निष्पादयामि” [यजुः-११।२ दयानन्दः] (यया सपत्नीं बाधते) यया-यस्या-अवलम्बनेन सपत्नीं विरोधिनीमनिष्टां कामवासनां बाधते या हि खलूपनिषदोऽध्यात्मविद्यायाः सपत्नी (यया पतिं संविन्दते) यया खलूपनिषदाऽध्यात्मविद्यया विश्वपतिं परमात्मानं प्राप्नोति जनः ॥१॥

    इस भाष्य को एडिट करें
    Top