ऋग्वेद - मण्डल 10/ सूक्त 148/ मन्त्र 1
ऋषिः - पृथुर्वैन्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् । आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोता॑: ॥
स्वर सहित पद पाठसु॒स्वा॒नासः॑ । इ॒न्द्र॒ । स्तु॒मसि॑ । त्वा॒ । स॒स॒ऽवांसः॑ । च॒ । तु॒वि॒ऽनृ॒म्ण॒ । वाज॑म् । आ । नः॒ । भ॒र॒ । सु॒वि॒तम् । यस्य॑ । चा॒कन् । त्मना॑ । तना॑ । स॒नु॒या॒म॒ । त्वाऽऊ॑ताः ॥
स्वर रहित मन्त्र
सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम् । आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोता: ॥
स्वर रहित पद पाठसुस्वानासः । इन्द्र । स्तुमसि । त्वा । ससऽवांसः । च । तुविऽनृम्ण । वाजम् । आ । नः । भर । सुवितम् । यस्य । चाकन् । त्मना । तना । सनुयाम । त्वाऽऊताः ॥ १०.१४८.१
ऋग्वेद - मण्डल » 10; सूक्त » 148; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 6; मन्त्र » 1
विषयः - अत्र सूक्ते परमात्मानं यः स्तौति स परमात्मनः प्रियो भवति मोक्षस्य भागी च भवति तस्य याः कामा भवन्ति परमात्मा ताः पूरयतीत्येवमादयो विषयाः सन्ति।
पदार्थः -
(तुविनृम्ण-इन्द्र) हे बहुधनवन् “तुवि बहुनाम” [निघ० ३।१] “नृम्णं धननाम” [निघ० २।१०] (सुष्वाणासः-त्वां स्तुमसि) वयं सुवक्तारः “सुष्वाणेभिः-सुष्ठु शब्दायमानैः” [यजु० २९।२ दयानन्दः] त्वां स्तुमः (वाजं ससवांसः-च) अमृतान्नभोगम् “अमृतोऽन्नं वै वाजः” [जै० २।१९३] सम्भजमानाश्च त्वां स्तुमः-इत्यन्वयः (नः-सुवितम्-आ भर) अस्मभ्यं सुगतं शुभं धनं समन्ताद्धारय (यस्य चाकन्) यस्य यथायोग्यं त्वं कामयसे (त्वोताः) त्वया पालिताः (तना) धनानि “तना धननाम” [निघ० ३।१०] (त्मना सनुयाम) आत्मभावेन सम्भजेमहि ॥१॥