ऋग्वेद - मण्डल 10/ सूक्त 155/ मन्त्र 1
ऋषिः - शिरिम्बिठो भारद्वाजः
देवता - अलक्ष्मीघ्नम्
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे । शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥
स्वर सहित पद पाठअरा॑यि । काणे॑ । विऽक॑टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ । शि॒रिम्बि॑ठस्य । सत्व॑ऽभिः । तेभिः॑ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥
स्वर रहित मन्त्र
अरायि काणे विकटे गिरिं गच्छ सदान्वे । शिरिम्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥
स्वर रहित पद पाठअरायि । काणे । विऽकटे । गिरिम् । गच्छ । सदान्वे । शिरिम्बिठस्य । सत्वऽभिः । तेभिः । त्वा । चातयामसि ॥ १०.१५५.१
ऋग्वेद - मण्डल » 10; सूक्त » 155; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 13; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 13; मन्त्र » 1
विषयः - अत्र सूक्ते दुर्भिक्षविपत्तेर्वर्णनं तत्परिणामो हाहाकारादिस्तद्दूरी-करणोपायाश्च प्रदर्श्यन्ते, मुख्योपायस्तु कथञ्चिदेव मेघवर्षणं कार्यं तथान्यदेशतो यान्त्रिकनौकयान्नानयनमिति।
पदार्थः -
(अरायि सदान्वे) हे अरायिनि दुर्भिक्षरूपं दरिद्रते ! त्वं कस्मैचित् विदुषेऽपि भिक्षां न ददासि तस्मात्, हे अदात्रि ! सदानोनुवे शब्दकारिके हाहाकारशब्दकारिके “सदानोनुवे सदाशब्दकारिके” [निरु० ६।३०] सदा शब्दोपपदात् णु शब्दे यङ् लुगन्तस्याचि ‘नोनुव’ इत्यस्य न्वभावः, यद्वाऽभ्यासाभावो धातोरुवङ्भावश्च, तथा दान्वेन सह सदान्वा स्त्रिया सम्बुद्धौ सदान्वे “दोऽवखण्डने” [भ्वादि०] ततो वन् औणादिकः, सखण्डने परस्परखण्डनकारिणे (काणे) एकदृष्टिके सम्पन्नान् पश्यति नासम्पन्नान् तथाभूते (विकटे) विकलगतिके ! “कटी गतौ” [भ्वादि०] (त्वं गिरिं गच्छ) गिरिं पर्वतं गच्छ नगरं त्यज यद्वा मेघं गच्छ तमेव मारय ताडय नीचैः पातय ‘इत्यालङ्कारिकं कथनम्’ (शिरिम्बिठस्य) अन्तरिक्षे शीर्णशीलस्य मेघस्य “शिरिम्बिठो मेघः शीर्यते विठे विठमन्तरिक्षम्” [निरु० ६।३०] ‘शिरोमुम्भावश्छान्दसः’ (सत्वभिः-त्वा चातयामसि) यज्ञेन निपातितजल-सत्वैस्त्वां नाशयामः ॥१॥