ऋग्वेद - मण्डल 10/ सूक्त 158/ मन्त्र 1
ऋषिः - चक्षुः सौर्यः
देवता - सूर्यः
छन्दः - स्वराडार्चीगायत्री
स्वरः - षड्जः
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् । अ॒ग्निर्न॒: पार्थि॑वेभ्यः ॥
स्वर सहित पद पाठसूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् । अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥
स्वर रहित मन्त्र
सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । अग्निर्न: पार्थिवेभ्यः ॥
स्वर रहित पद पाठसूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ॥ १०.१५८.१
ऋग्वेद - मण्डल » 10; सूक्त » 158; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 1
विषयः - अस्मिन् सूक्ते सर्वलोकानां प्रमुखदेवा अग्नवायुसूर्याः सन्ति तेषां यथावद् उपयोगः कार्यः सूर्याद्दर्शनशक्तिः प्राप्यते खल्वित्येवं विषयाः सन्ति।
पदार्थः -
(सूर्यः-नः-दिवः पातु) सूर्योऽस्मान् द्युलोकात् तत्रत्य-पदार्थाद् रक्षतु (वातः-अन्तरिक्षात्) वायुरस्मान् खल्वन्तरिक्षात् तत्रत्यपदार्थाद् रक्षतु (अग्निः पार्थिवेभ्यः) अग्निः पार्थिवेभ्यः पदार्थेभ्यो रक्षत्विति तथा वर्तितव्यं कर्तव्यं च ॥१॥