Loading...
ऋग्वेद मण्डल - 10 के सूक्त 161 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 161/ मन्त्र 1
    ऋषिः - यक्ष्मनाशनः प्राजापत्यः देवता - राजयक्ष्मघ्नम् छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् । ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥

    स्वर सहित पद पाठ

    मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् । ग्राहिः॑ । ज॒ग्राह॑ । यदि॑ । वा॒ । ए॒तत् । ए॒न॒म् । तस्याः॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥


    स्वर रहित मन्त्र

    मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् । ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥

    स्वर रहित पद पाठ

    मुञ्चामि । त्वा । हविषा । जीवनाय । कम् । अज्ञातऽयक्ष्मात् । उत । राजऽयक्ष्मात् । ग्राहिः । जग्राह । यदि । वा । एतत् । एनम् । तस्याः । इन्द्राग्नी इति । प्र । मुमुक्तम् । एनम् ॥ १०.१६१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 161; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 19; मन्त्र » 1

    पदार्थः -
    (त्वा) हे रोगिन् ! त्वाम् (अज्ञातयक्ष्मात्-उत राजयक्ष्मात्-हविषा जीवनाय कं मुञ्चामि) गर्भतो यदा मातापितृसकाशात् सम्भूता-द्रोगात् तथा सकारणाद्राजयक्ष्माद्-यक्ष्माणां यो राजा तस्मात्-हव्यद्रव्येण होमेन जीवनाय सुखपूर्वकं विमोचयामि पृथक् करोमि (यदि वा-एतत्-एनं ग्राहिः-जग्राह) यदि खलु एतदेनं ग्राहिः “गृह्णातीति ग्राहिः” गृह धातोरिन्-औणादिकः सा खलु ग्राहिः-वातव्याधिरूपा, शरीरं गृहीतवती तस्याः (इन्द्राग्नी) इन्द्रो वायुरग्निश्च “यः-इन्द्रः स वायुः” [श० ४।१।३] वायुरग्निश्च कुण्डस्थस्तौ खलूभौ (तस्याः-एतत्-एनं प्रमुमुक्तम्) अस्याः-विपत्तेरेतदेनं प्रमोचयतम् ॥१॥

    इस भाष्य को एडिट करें
    Top