ऋग्वेद - मण्डल 10/ सूक्त 166/ मन्त्र 1
ऋषिः - ऋषभो वैराजः शाक्वरो वा
देवता - सपत्नघ्नम्
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् । ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥
स्वर सहित पद पाठऋ॒ष॒भम् । मा॒ । स॒मा॒नाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम् । ह॒न्तार॑म् । शत्रू॑णाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गवा॑म् ॥
स्वर रहित मन्त्र
ऋषभं मा समानानां सपत्नानां विषासहिम् । हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
स्वर रहित पद पाठऋषभम् । मा । समानानाम् । सऽपत्नानाम् । विऽससहिम् । हन्तारम् । शत्रूणाम् । कृधि । विऽराजम् । गोऽपतिम् । गवाम् ॥ १०.१६६.१
ऋग्वेद - मण्डल » 10; सूक्त » 166; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 1
विषयः - अत्र सूक्ते राजा सैन्यशरीरमनआत्मबलैर्युक्तः स्यात्, राष्ट्रविद्रोग्धृ-जनानां वृत्तेः परम्परातः क्षेमस्य स्वायत्तीकरणे विशिष्टदण्डप्रदानं च तेभ्यो दातव्यं प्रजारक्षणं च कार्यमित्येवं विषयाः सन्ति।
पदार्थः -
(समानानां मा-ऋषभम्) समानगुणकर्मवतां मध्ये श्रेष्ठम् (सपत्नानां विषासहिम्) विरोधिनामभिभवितारम् (शत्रूणां हन्तारम्) शातयि-तॄणां हन्तारम् (गवां विराजं गोपतिम्) भूमीनां विशेषेण राजमानं भूमिस्वामिनम् (मां कृधि) परमात्मन् मां कुरु ॥१॥