साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 167/ मन्त्र 1
ऋषिः - विश्वामित्रजमदग्नी
देवता - इन्द्र:
छन्दः - स्वराडार्चीजगती
स्वरः - निषादः
तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि । त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तप॑: परि॒तप्या॑जय॒: स्व॑: ॥
स्वर सहित पद पाठतुभ्य॑ । इ॒दम् । इ॒न्द्र॒ । परि॑ । सि॒च्य॒ते॒ । मधु॑ । त्वम् । सु॒तस्य॑ । क॒लश॑स्य । रा॒ज॒सि॒ । त्वम् । र॒यिम् । पु॒रु॒ऽवीरा॑म् । ऊँ॒ इति॑ । नः॒ । कृ॒धि॒ । त्वम् । तपः॑ । प॒रि॒ऽतप्य॑ । अ॒ज॒यः॒ । स्वरिति॑ स्वः॑ ॥
स्वर रहित मन्त्र
तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । त्वं रयिं पुरुवीरामु नस्कृधि त्वं तप: परितप्याजय: स्व: ॥
स्वर रहित पद पाठतुभ्य । इदम् । इन्द्र । परि । सिच्यते । मधु । त्वम् । सुतस्य । कलशस्य । राजसि । त्वम् । रयिम् । पुरुऽवीराम् । ऊँ इति । नः । कृधि । त्वम् । तपः । परिऽतप्य । अजयः । स्व१रिति स्वः ॥ १०.१६७.१
ऋग्वेद - मण्डल » 10; सूक्त » 167; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 25; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 25; मन्त्र » 1
विषयः - अस्मिन् सूक्ते सर्वश्रेष्ठो राजा राज्याधिकारी भवति, प्रजाजनानां गणेभ्यो वर्णेभ्यश्च भेदभावमन्तरेण पालनं तेभ्योऽधिकारप्रदानं च कार्यम्, इत्यादयो विषयाः सन्ति।
पदार्थः -
(इन्द्र) हे राजन् ! (तुभ्य) तुभ्यम् ‘मकारलोपश्छान्दसः’ (इदं मधु) इदं मधुरं द्रवं द्रव्यम् (परिषिच्यते) परितः साध्यते “सिच्यते साध्यते” [यजु० १९।१५ दयानन्दः] (त्वं सुतस्य कलशस्य राजसि) त्वं निष्पादितस्य कलाभिः पूर्णस्य राष्ट्रस्य स्वामित्वं करोषि (त्वं पुरुवीरां रयिम् उ नः कृधि) त्वं बहुवीरवन्तं पोषमेव अस्मभ्यं कुरु (त्वं तपः परितप्य स्वः अजयः) त्वं श्रमं परितो विधायास्मदर्थं सुखं जयसि प्रापयसि ॥१॥