साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 177/ मन्त्र 1
प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: ॥
स्वर सहित पद पाठप॒त॒ङ्गम् । अ॒क्तम् । असु॑रस्य । मा॒यया॑ । हृ॒दा । प॒श्य॒न्ति॒ । मन॑सा । वि॒पः॒ऽचितः॑ । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । वि । च॒क्ष॒ते॒ । मरी॑चीनाम् प॒दम् इ॑च्छन्ति वे॒धसः॑ ॥
स्वर रहित मन्त्र
पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चित: । समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधस: ॥
स्वर रहित पद पाठपतङ्गम् । अक्तम् । असुरस्य । मायया । हृदा । पश्यन्ति । मनसा । विपःऽचितः । समुद्रे । अन्तरिति । कवयः । वि । चक्षते । मरीचीनाम् पदम् इच्छन्ति वेधसः ॥ १०.१७७.१
ऋग्वेद - मण्डल » 10; सूक्त » 177; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 1
विषयः - अत्र सूक्ते जीवात्मनो नित्यत्वं पुनः पुनः-शरीराच्छरीरान्तरं गमनं यावन्मोक्षः, वाणीं च प्रकटयति मनोयोगेन तां च विद्वांसो धारयन्ति ज्ञानप्रसारायेत्येवमादयो विषयाः सन्ति।
पदार्थः -
(असुरस्य मायया-अक्तं पतङ्गम्) प्राणदस्य परमेश्वरस्य प्रज्ञया “माया प्रज्ञानाम” [निघ० ३।९] प्रसिद्धं प्रसिद्धं प्राप्तं पतङ्गम् “पतन्निव ह्यङ्गतीति-पतङ्ग इत्याचक्षते” [जै० ३।६।७।२] जीवात्मानम् (हृदा मनसा विपश्चितः पश्यन्ति) हृदयस्थेच्छया मनसा विशिष्टविद्वांसः पश्यन्ति जानन्ति (कवयः-वेधसः) मेधाविनोऽध्यात्मकर्मविधातारो योगिनः (मरीचीनां पदम्-इच्छन्ति) ये मरीचीनां रश्मीनां पदं सूर्यमिव “सूर्यस्य मरीचिः” [तै० आ० ३।९।२] तं जीवनशक्तीनां यद्वा चित्तवृत्तीनां पदं जीवात्मानमिच्छन्ति (समुद्रे अन्तः-विचक्षते) विश्वस्य समुद्रे समुद्ररूपे परमात्मनि-अन्तस्तं जीवात्मानं स्वात्मानं विशेषेण पश्यन्ति साक्षात् कुर्वन्ति ॥१॥