Loading...
ऋग्वेद मण्डल - 10 के सूक्त 179 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 179/ मन्त्र 3
    ऋषिः - वसुमना रौहिदश्वः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः । माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥

    स्वर सहित पद पाठ

    श्रा॒तम् । म॒न्ये॒ । ऊध॑नि । श्रा॒तम् । अ॒ग्नौ । सुऽश्रा॑तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी॑यः । माध्य॑न्दिनस्य । सव॑नस्य । द॒ध्नः । पिब॑ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒ऽकृ॒त् । जु॒षा॒णः ॥


    स्वर रहित मन्त्र

    श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः । माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥

    स्वर रहित पद पाठ

    श्रातम् । मन्ये । ऊधनि । श्रातम् । अग्नौ । सुऽश्रातम् । मन्ये । तत् । ऋतम् । नवीयः । माध्यन्दिनस्य । सवनस्य । दध्नः । पिब । इन्द्र । वज्रिन् । पुरुऽकृत् । जुषाणः ॥ १०.१७९.३

    ऋग्वेद - मण्डल » 10; सूक्त » 179; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 37; मन्त्र » 3

    पदार्थः -
    (श्रातं मन्ये) पक्वं मन्ये जानामि (ऊधनि श्रातम्) गोरूधनि दुग्धाधानाङ्गे जातं दुग्धम् (अग्नौ-सुश्रातं मन्ये) अग्नौ पक्वं तु सुष्ठु पक्वं मन्ये (तत्-नवीयः-ऋतम्) तद्यत्  खलु नवतरं कृषिभूमौ श्रातमन्नं तथैव मृदुजातं गोरूधसि जातं कठोरं कृषिभूमौ जातं खल्वग्नौ पक्वमिव भवति मन्ये वा तद्दातव्यं राज्ञे (वज्रिन्-इन्द्र) वज्रवन् राजन् ! त्वं बहुकार्यकृत् (जुषाणः) अस्मान् जुषाणः सेवमानः प्रीयमाणो वा (माध्यन्दिनस्य सवनस्य) वासन्तिकदिनेषु जातस्यावसरस्य (दध्नः-पिब) दधिं षष्ठी व्यत्ययेन द्वितीयायाम् दधिवन्मृदुद्रवरसं नवान्नफलरसं पिब “ऊर्ग्वाऽन्नाद्यं दधि” [तै० २।७।२।२] ॥३॥

    इस भाष्य को एडिट करें
    Top