ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 1
ऋषिः - सङ्कुसुको यामायनः
देवता - मृत्यु
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥
स्वर सहित पद पाठपर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । यः । ते॒ । स्वः । इत॑रः । दे॒व॒ऽयाना॑त् । चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒ऽजाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥
स्वर रहित मन्त्र
परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा न: प्रजां रीरिषो मोत वीरान् ॥
स्वर रहित पद पाठपरम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । यः । ते । स्वः । इतरः । देवऽयानात् । चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रऽजाम् । रिरिषः । मा । उत । वीरान् ॥ १०.१८.१
ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 1
विषयः - अत्र सूक्ते मुमुक्षूणां मोक्षप्रापणं तद्भिन्नानां संसारप्रवृत्तिश्च वर्ण्येते ॥
पदार्थः -
(मृत्यो) हे मारयितः काल ! ‘मृत्युः मारयतीति सतः” [निरु०११।७] (परं पन्थाम्-अनुपरेहि) अन्यं पन्थानं प्रति प्राप्नुहि (यः ते) यः पन्थास्ते तवास्ति (देवयानात्) मुमुक्षुयानाद्भिन्नः पितृयाणः यत्र पुनर्जन्मार्थं मातापितरौ प्राप्नुवन्ति साधारणा जनाः (चक्षुष्मते शृण्वते ते ब्रवीमि) चक्षुष्मते शृण्वते तुभ्यं ब्रवीमि-इति त्वालङ्कारिकं कथनम् (नः प्रजां मा रीरिषः-मा-उत वीरान्) अस्माकं देवयानमार्गिणामिन्द्रियाणि मा हिंसीः “इन्द्रियं प्रजाः” [का०२७।२] नापि प्राणान् नाशय “प्राणा वै वीराः” [श०९।४।३।१०] ॥१॥