ऋग्वेद - मण्डल 10/ सूक्त 22/ मन्त्र 14
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - पाद्निचृद्बृहती
स्वरः - मध्यमः
अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्याना॑म् । शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥
स्वर सहित पद पाठअ॒ह॒स्ता । यत् । अ॒पदी॑ । वर्ध॑त । क्षाः । शची॑भिः । वे॒द्याना॑म् । शुष्ण॑म् । परि॑ । प्र॒ऽद॒क्षि॒णित् । वि॒श्वऽआ॑यवे । नि । शि॒श्न॒थः॒ ॥
स्वर रहित मन्त्र
अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् । शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥
स्वर रहित पद पाठअहस्ता । यत् । अपदी । वर्धत । क्षाः । शचीभिः । वेद्यानाम् । शुष्णम् । परि । प्रऽदक्षिणित् । विश्वऽआयवे । नि । शिश्नथः ॥ १०.२२.१४
ऋग्वेद - मण्डल » 10; सूक्त » 22; मन्त्र » 14
अष्टक » 7; अध्याय » 7; वर्ग » 8; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 8; मन्त्र » 4
पदार्थः -
(यत्-अहस्ता-अपदी क्षाः) हस्ताभ्यां न ग्रहीतुं योग्या न पद्भ्यां प्राप्तुं योग्या तथाभूता क्षाः-भूमिः-अध्यात्मभूमिः ‘सुपां सुपो भवन्तीति” सुस्थाने जस् (वेद्यानां शचीभिः वर्धते) वेदितव्याभिः-निवेदनीयाभिः विभक्तिव्यत्ययः “वेद्याभिर्वेदितव्याभिः” [निरु० २।२१] वाग्भिः “शचीति वाङ्नाम” [निघ० १।११] परमात्मनः उत्तमस्तुतिभिर्वर्धते सम्यङ् निष्पद्यते (शुष्णं परि प्रदक्षिणित्) शोषयितारं बन्धनकर्त्तारं रागादिकं पापं त्वमिन्द्र परमात्मा परितः प्रदक्षिणामेत्य सर्वतः परिभूय (विश्वायवे) स्तोतॄणां पूर्णायुर्दानाय (नि शिश्नथः) हंसि “श्नथयति वधकर्मा” [निघ० २।१३]। तथा− (यत्-अहस्ता-अपदी क्षाः) या हस्ताभ्यां न ग्रहीतुं योग्या न हस्तयोर्बन्धनयोग्या न च पादयोर्बन्धनयोग्या राष्ट्रप्रजा यद्वा न हस्ताभ्यां कृषिकरणयोग्या न पद्भ्यां यात्राकरणयोग्या तथाभूता सकण्टका भूमिः (वेद्यानां शचीभिः) वेदितव्याभिः प्रजाभिः-नीतिभिः कर्मभिर्वा “शची प्रज्ञानाम” [निघ० ३।९] “शची कर्मनाम” [निघ० २।१] (वर्धते) संवर्धते सुखसम्पत्त्या सम्पद्यते (शुष्णं परि प्रदक्षिणित्) शोषकं प्रजाघातकं चौरादिकं हिंसकं दुर्भिक्षं दुष्कालं परितोऽभिशोध्य (विश्वायवे) सर्वजनाय सर्वान्नाय वा (नि शिश्नथः) नाशय ॥१४॥